________________ 164] शास्त्रवार्तासमुच्चयस्य [अष्टमः र्गमात्रमपेक्ष्याज्ञानादीनामाध्यासिकसंसर्गभासकत्वात् तदवभासः, तेन यावद् विषयसत्त्वम् "अहमज्ञः" सुखी दुःखी मनुष्यः इति भासमानत्वात् न कदापि सन्देहः / सचापरोक्षकस्वभावः, अध्यस्ताधिष्ठानयोरभेदेन संविदभिन्नत्वात् संविदभेदो ह्यपरोक्षता नाम स च नानिर्वचनीयतादात्म्यस्वरूपः, तादात्म्यसंसर्गादीनामपरोक्षत्वाभावप्रसङ्गात्, तत्र तादात्म्यान्तराभावात्, किन्तूक्तलक्षण एवेति / अथैवं घटस्य संविदभिन्नत्वाभावात् परोक्षत्वापत्ति: स्यादिति चेत् ? किमीश्वरस्य जीवस्य वा ? नाद्यः, घटादीनामभेदेन ब्रह्मएयध्यस्तत्वात्, द्वितीयोऽपि न, तथाहि-परिच्छिन्नजीवपक्षे तावदिन्द्रियद्वारा निःसृतान्तःकरणवृत्या संसृष्टो घटः, घटसंसृष्टा वा वृत्तिः प्रमातृचैतन्यस्य घटावच्छिन्नब्रह्मचैतन्यावरणानिवृत्तौ तदज्ञाननिवृत्तौ वा तदुभयाभावपक्षेऽनिवृत्तौ वा विषयचैतन्याभेदेनाभिव्यक्तिहेतुः सम्पद्यते, ततः स्वाध्यस्तो घटः सुखवदपरोक्षः, केवलं सुखं साक्ष्यपरोक्षम्, घटः प्रमाणापरोक्ष: इत्येतावान् भेदः / अपरिच्छि. नजीवपक्षेऽपि असङ्गस्य जीवचैतन्यस्य घटोपरागार्था वृत्तिः / उपरागस्तु न संयोगादिः मानाभावात् किन्तु स्वाध्यायस्तत्वमेव, तच्चाअपने व्यवहारसौक-य घटावच्छिन्नचैतन्येष्वावरणान्तराबानान्तरास्वीकाराद् वृत्तेस्तन्निवृत्त्यर्थत्वाभावेऽपि जीवचैतन्यस्यासङ्गत्वात् घटानधिष्ठानत्वाच्च न वृत्तेः प्राक् घटसम्बन्धः, अन्त.करणवृतिस्तु जीवेऽध्यस्तेति तया सह सम्बन्ध एवेतीन्द्रियद्वारा नि.सृतान्तःकरणवृत्त्या संसृष्टे घटे घटसंसृष्टायां वा वृत्तौ जीवचैतन्यक्षियाधिष्ठानचैतन्याभेदापत्त्येति / तदेवं केवलसाक्षिवेद्यत्वे तुल्येऽपि रजतादौ वृत्तिरपेक्षिता, नत्वज्ञानादौ देहपर्यन्ते। ननु कथं देहस्य केवलसाक्षि