________________ 162 ] शास्त्रवार्तासमुच्चयस्य [अष्टमः पधिशक्तिनाशाद् मुक्त्युपपत्तेः / एवमन्तःकरणभेदेऽपि भाव्यम्, केवलमत्र "तन्मनोऽकुरुत” इति श्रुतेरन्त.करणस्य जन्यत्वाज्जीवस्य सादिस्वप्रसङ्ग इति नातीव विदुषामादरः। . . जीवभेदे स्वीक्रियमाण एव क्रममुक्तिफलानां हिरण्यगर्भाधुपासनावाक्यानामुपत्पत्तिरपि जायते, तथाहि-कश्चिद् वेदार्थाभिज्ञो नित्यादिकर्म यथाविध्यनुतिष्ठन्नामस्मरणमभ्यस्यमानकेवलहिरण्यग र्भोपासनायाः परिपाके 'अहं हिरण्यगर्भः' इति प्रतीत्युद्रेके देह परित्याज्याचिरादिमार्गेण ब्रह्मलोकं गतो हिरण्यगर्भसायुज्यं गच्छति। ___ अन्यस्तूपासनाया अपरिपाके हिरण्यगर्भसालोक्यादि गच्छति, परस्त्विहैव श्रवणादिपरिपाकोत्पन्नज्ञानो मुच्यते, अपरन्तु श्रवणादिपरिपाकेऽपि प्रारब्धप्रतिबन्धेनानुत्पन्नज्ञानस्तन्नाशे शरीरनाशाद् योग्यन्तरगतो गर्भस्थदेहाभिव्यक्तौ प्रथममेव 'अहं ब्रह्मास्मि' इति प्रत्यय लभते वामदेववत् / अन्यः पुन: साधनसम्पन्नश्रवणाद्यभ्यासे क्रियमाणे मध्ये मृतः श्रवणाद्यभ्याससामोबुद्धपूर्वशुभकर्मफलानि बहु. कालं भुक्त्वा शुचीनां श्रीमतां योगिनां वा कुले उत्पन्नः पूर्वाभ्यासवशेन पुनः प्रारब्धश्रवणाद्यभ्यासपरिपाकलब्धज्ञानो विमुच्यत इति। एवमेव विराडाद्युपासकानां विराडादिसायुज्यप्राप्तिः, प्रतीकोपासकानांश्च विद्यु. लोकप्राप्राप्तिद्रष्टव्या / अन्ये त्वज्ञानक्यात्तदुपहितं जीवमे कमेवाभ्युपगच्छन्ति, तेषामुपासकानां क्रममुक्तिश्रवणं श्रुतावर्थवादमात्रमेव मन्तव्यम् , चित्त. काग्रतायान्तूपासनोपयोग: कर्मानुष्ठानवन् / केषाश्चित्प्रमातृणामनुष्टितोपासनापरिपाके ब्रह्मलोक गतानां यावत्कल्पमवस्थाय कल्पान्तर भायुसे। "इम मानवमावत नावर्तते" इति श्रुतौ "इमम्" इति