________________ स्तवकः ] कल्पलतावतारिका [161 दिति चेत्सत्यम् बिम्बं तु शुद्धमेव चैतन्यम् , अज्ञानप्रतिबिम्बित चैतन्यं साक्षी आवरणशक्तिप्रतिबिम्बभूतश्चेश्वर इति न किमपि दूषणम् :उपाधिभूतस्य शक्तिद्वयस्य व्यापकतया तत्प्रतिबिम्बयोर्जी. वेश्वरयोरपि व्यापकत्वात् , जीवान्तर्यामित्वस्य ब्रह्मण: श्रुतिसिद्धस्याव्याहतत्वात् / . . अज्ञानावच्छिन्नं चैतन्य जीवः इति भामतीकारा वाचस्पतिमिश्राः / नचैतन्मते ईश्वरस्य सर्वान्तर्यामित्वानुपपत्तिरिति वाच्यम् 'अज्ञानोपाध्यवच्छिन्नं चैतन्यं जीवः' "अज्ञानविषयतोपाध्यवच्छिमें चैतन्यं चेश्वरः' इत्युपाधेापकत्वेन तदुपहितस्येश्वरस्यापि व्यापकत्वात् / अथैवमपि तन्मतेऽज्ञानचैतन्यस्येश्वरत्वे "अहं मां न जानामि" इत्यनुभवादीश्वरस्य प्रत्यक्षत्वापातः / नचाज्ञानतया सर्व स्य साक्षिभास्यत्वादिष्टापत्तिरिति वाच्यम्, अनुभूयमानस्य "अहम". इत्यज्ञानचैतन्यस्येश्वरस्य स्वरूपतः प्रत्यक्षत्वापत्तेः इष्यते च "ईश्वर न जानामि” इत्येतावन्मात्रमेवेति चेत् न, “अहं मां न जानामि" इत्यत्राखण्डस्यैव भ्रमाधिष्ठानस्य चैतन्यस्यावभासनात, अज्ञाततो. पहितचैतन्यस्येश्वररूपस्यानवभासात्, अज्ञाततारूपोपाधिस्फुरणेऽप्य. योग्यत्वेन तदुपहितास्फुरणात, घटस्फुरणे घटोपहिताऽऽकाशस्फुरणवत् / स च जीवोऽज्ञानबहुत्ववादे हिरण्यगर्भविराडादिभेदेन नाना तदैक्येऽपि तच्छक्तिभेदात , तज्जान्तःकरणभेदाद् वा नानेतिमन्तव्यम्, अज्ञानभेदे प्रत्यज्ञानमावरणविक्षेपशक्तिकल्पने गौरवम् , तदैक्ये 'वेकत्रैव तावच्छक्तिकल्पनाल्लाघवम् / न च तावत्यः शक्तय एव स्वीक्रियन्तां किमज्ञानेनेति वाच्यम् शक्तीनां साश्रयत्वनियमात्, ततः शक्तिभेदेन तदुपहितजीवभेदः, तत्तज्जीवगततत्वज्ञानेन जीवो.