________________ 160 ] शास्त्रवार्तासमुच्चयस्य [अष्टमः . प्रसक्तौ "नास्ति' "न प्रकाशते" इतिव्यवहारार्थमेवावरणफल्पनातु, घटादौ तु स्वतोऽप्रकाशे तस्य व्यर्थत्वादिति चेत्-. अत्राहुः-विषयैः सहाज्ञानस्य साक्षिचैतन्येऽध्यासात् प्रतिभास: इति, अस्यार्थः-ईश्वरस्योपाधिवशाद् विष्ण्वादिबैविध्यवत् साक्षिण एव ततो जीवेश्वरभानेन द्वैविध्यात् , साक्षिणीश्वरत्वावच्छेदेन विषयाणामध्यासात्, अज्ञानावरणयोरपि चिन्मात्राश्रयत्वेन तत्र सत्वात्, विषयनिष्ठतयाऽज्ञानावरणप्रतीति: "अज्ञातो घटः” इति, यथा लौहित्यमुखयोः स्फटिकाचलप्रतिबिम्बितयोः “लोहित मुखम्" इति परस्परसंसर्गो भासते / तेन कुसुमादिनिष्ठलौहित्य. संसर्ग इव मुखे चिन्निष्ठाऽऽवरणसंसर्गो घटादावनिर्वचनीयः अन्यथाऽन्यथाख्यात्यापत्तेः, अत एव पटारदेरप्यज्ञानविषयत्वम्, अज्ञानजन्यावरणसंसर्गरूपातिशयशालित्वात् / स चायमावरणसंसर्गो घट. ज्ञानेन नश्यति, घटज्ञानदशायाम् "अज्ञातो घटः” इत्यनुभवात्, अस्मिन् पक्षे मूलाज्ञानादेवोक्तरीत्या शुक्तिविषयाद् रजतोत्पत्तिः, शुक्तिज्ञानेन चावरणसंसर्गनाशे शुक्ति विषयता मूलाज्ञानस्य नष्टेति विशिष्टज्ञाननाशात् सविलासाज्ञाननिवृत्तिरूपपबाधव्यवहारो नत्वज्ञाननिवृत्तिरिति निरूपितमज्ञानतत्त्वम् / अथ जीवेश्वरादिप्रपञ्चः / तत्र "अविद्याप्रतिबिम्बित चैतन्य जीवः” इति विवरणाचार्याः / युक्तमेवैतत् , "रूपं रूप प्रतिरूपी बभूव" इति श्रुतेः “एकधा बहुधा चैव दृश्यते जलचन्द्रवत्" इत्यादि स्मृतेश्च / नचामूर्तपदार्थस्य प्रतिविम्बासम्बन्ध इति वा. च्यम्, आकाशादेरमूर्तस्य प्रतिबिम्बदर्शनात् / नन्वविद्यावच्छिन्नं चैत. न्यमेव जीवोऽस्तु, एवं सति सर्व नियन्तृत्वं परमेश्वरस्य न स्या