________________ स्तककः 11 कल्पलतावतारिका [18 . बस्तुतः कार्यमात्रोपादानतया नित्यैकज्ञानस्यैव सिद्धिः, न तु तदाश्रयस्यापि तस्यैव च तत्तदुपाधिप्रतिभासम्भवे सुखादिवैचित्र्य. बन्धमोक्षादि व्यवस्थोपपत्तौ न पारमार्थिकभेदकल्पनावकाशः, जीवे. श्वरादिविभागस्याप्यज्ञानोपाधिकत्वात् / अज्ञानञ्च मायाऽविद्याशब्दाभिधेयम् / तत्र प्रमाणञ्च "अहमज्ञः” “मामन्यं च न जानामि" "स्व. दुक्तमर्थ न जानामि" "शास्त्रार्थं न जानामि" इत्याद्यनुगतः प्रत्ययः अनुगतविषय विना तदनुपपत्तेः, अन्यथा सत्तादिसामान्योच्छेदापत्तेः / ज्ञानसामान्याभावोऽत्र विषय इति चेत् न, आत्मनि तस्याभावात्, अर्थेन सहानुभवाच्च, "अंथ न जानामि" इत्यर्थगतसंख्याज्ञानाभावो विषय इति चेन्न शास्त्रार्थं न जानामि" इत्यत्रा. नुपपत्तेः / कचित्संख्याज्ञानाभावः, कचिदपरोक्षज्ञानाभावः, कचिनिस्चयाभावो विषय इति चेत् न, अननुगमात् / तञ्च चिन्मात्राश्रयविषयमिति विवरणाचार्याः, आश्रयविषयभेदकल्पनायां गौरवात् / कल्पित दम् , तेनाखण्डत्वादेर्वस्तुतश्चिद्रूपत्वात् , चिद्रूपस्य चाना. वृतत्वाद् नानुपपत्तिः, “चैतन्यं स्फुरति नाखण्डत्वादि” इत्येवं तेनावरणेन भेदकल्पनात् / आश्रयमेव कथमावृणोति तत् ? इति चेत्, सत्यम्, अन्धकारे तथादर्शनात् / - अथ चैतन्यनिष्ठावरणे मानसत्त्वे तदसत्वे वाऽऽवरणानिवृत्ति तदसिद्धिप्रसङ्ग इति चेत् न, तस्य साक्षिसिद्धत्वात् "अहं मां न जानामि" इत्यनुभवात्, अत्र च "माम्' इति द्वितीयाविभक्त्यर्थस्य विषयत्वस्याझानजन्याऽऽवरणरूपातिशयशालित्वस्योल्लेखात् / ननु चि. मात्रनिष्ठ प्रावरणे "घटोऽज्ञातः” इति कथं प्रत्यय: ? "अस्ति" "प्रकाशवे' इति स्वतः स्फुरति चैतन्थे अक्षण्यपि तथा व्यवहार