________________ शाखबार्तासमुच्चयस्य नाधिकरण्यविरहात् इति चेत् न, पृथिव्यां रूपे गन्धसामानाधिकर. ण्याविरोधवत् रज्जो सर्प स्वाभावसामानाधिकरण्यस्याप्यविरोधात् / ' कथं तर्हि भ्रान्तित्वमिति चेत् स्वाभावाश्रये सत्त्वात् / परेषां स्वा. भावाश्रये सत्त्वावगाहित्वं भ्रान्तित्यप्रयोजकम् अम्माकं तु स्वाभावा. श्रये सत्त्वमिति लाघवम् / पुरोवर्तिनि सर्पसत्त्वे व्यवहारः स्यादिति चेत् भ्रमदशायां स्यादेव, बाधदशायान्तु बाधस्य प्रतिबन्धकत्वादेव न स्यात् , अन्यदा च सामग्रीविग्हादेव, न स्यादिति, तदेवमनिर्वचनी. यस्य सर्पस्य रज्जुरिवानिर्वचनीयस्य प्रपन्नस्य ब्रह्मैव तत्वमिति / तच्च ब्रह्म सर्वथैवाद्वितीयम् प्रपञ्चासिद्धथा विजातीयभेदशून्यस्थात् अखण्डमपि भवति सजातीयभेदशून्यत्वात्, तथाहि-न तावत् चेतनभेदः प्रत्यक्षसिद्धः चेत्तनानां घटादीनामिव भेदेनानुभवाभावात् , तत्तच्छरीरप्रवृत्त्याभिन्नाः कल्प्यन्त इति चेत् न, एकेनैव तत्तच्छरीर. प्रवृत्त्युपपत्तावनेककल्पनानुपपत्तेः / सुखदुःखादिवैचित्र्यादनेकत्वमिति चेत् न, तस्याप्युपाधिभेदत एकोपपत्तेः / सृष्टं हि गगनस्यैकस्यैव भेरीकर्णाधुपाधिभेदेन शब्दविशेषहेतुत्व-शब्दग्राहकत्वादिवैचित्र्यम् , अभ्युपगम्यत एवानेकात्मवादिभिरपि प्रतिधेतनमन्त:करणेन्द्रियादिभेदः ततस्तदुपाधित एष सुखदुःखादिवैचित्र्योपपतिः, भानामान. व्यवस्थापि तेनैवोपपद्यते / किन घटादयः शरीरादय: बुद्धचादयस्त. दाधारश्च स्फुरन्तीत्यत्राविषादम्, स्फुरण घोपाधिभेदं विनाऽविभाव्य. मानभेदतया लाघवेन चैकम्, ततश्च परेषामनुष्यवसायशब्दाभिधेयं - स्फुरण नित्यमेकमात्मेत्युच्यते / सच्च न सुखादिमत् तद्विषयस्थात, अननुभवाच, एवञ्च सुखादिवचित्रग्रेण तदाधारभेदेऽपि न कुरणभेदः, इष्यते च नैयायिकैरपि व्यापको निस्वमीश्वरनामम् /