________________ स्तवक.) कल्पलतावतारिका [ 187 रूपेण भावा न व्यावृत्ताः स्युः, कल्पितात्तु भेदात् कल्पितमेव नोलादिनानात्वं न तु पारमार्थिकम् / अथ परापेक्ष वस्तुनो भिन्नत्वं स्वरूपेण त्वेकस्वमिति न दोष इति चेत् न, नहि पदार्थः ( वस्तु ) स्वहेतुबलो. 'दितः स्वभावव्यवस्थितये परमपेक्षते इति पुरुषप्रत्ययधर्म एव परापे. . क्षत्वमिति न ततो वस्तुभेदः। कि चैकस्य द्वयात्मकस्याभावात् भेदाभेदयोरेकतरस्य मिथ्यात्वनियमे भेदानामेव तत्त्वकल्पनमुचितं न तु वस्तुमात्रस्य / अपि च गन्धसमवायिकारणतावच्छेदकं यथा पृथिवी. त्वमेवेति तत्रैव गन्धस्तत्सम्बन्धादेव च जलादौ गन्धवत्त्वव्यवहारस्तथा सस्वाश्रयतावच्छेदकमपि चित्त्वमेवेति चिदेव सती, सर्वव्यवहारस्य तदधीनत्वात् , तत्सम्बन्धादेव च प्रपञ्चे सत्त्वव्यवहारः / अपि च पराभिमताऽऽत्मविशेषादर्शनान्वयव्यतिरेकानुविधायित्वात् प्रपञ्चप्रतिभासस्य भ्रमत्वमङ्गीकरणीयम् / नचात्मविशेषादर्शनान्वय. ध्यतिरेकयोदेहतादात्म्यप्रतिभासे नान्यथासिद्धिः, विनिगमकाभावात् मुक्ती देहतादात्म्याप्रतिभासवत् प्रपञ्चाप्रतिभासनात् संसारदशायां देहतादात्म्यप्रतिभासवत् प्रपद्धप्रतिभासनाञ्च / वस्तुत आत्मविशेषादर्शनजन्यतावच्छेदकम् आत्मदेहतादात्म्यभ्रमत्वं न स्वीकरणीयम, गौरवात् , किन्तु दृश्यदर्शनत्वमेव लाघवात् , अतएव ब्रह्मणः सकलप्रपञ्चविषयत्वं संयोगादिसम्बन्धानिरूपणात् स्वरूपस्य सम्बन्धत्वाभावात् काल्पनिकज्ञेयतादात्म्याश्रयणेनोपपद्यत इति युक्तम् / .. किच परैरपि विशेषादर्शनम्य भ्रमहेतुत्वमुपेयते, तत्र तैरभावत्वं कलप्यते, अस्माभिः (वेदान्तिभिः ) तु लघुभूतं भावत्वमेव तैश्च निमित्तत्य कलप्यतेऽस्माभिस्त्वन्तरङ्गमुपादानत्वमिति स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वरूपं मिथ्यात्वं सर्पस्य कथम् ? स्वाभावसामा