________________ 186 ] शास्त्रवार्तासमुच्चयस्य . [अष्टमः अपि तु सर्वोऽपि विद्वान् तामुपासीतैव / उपमालङ्कारः / उपमानोपमेययोर्बदनाम्भोजक्रीडनात्मकसाधारणधर्माभिसम्बन्धात् , “साधर्म्यमुपमाभेदे” इतितल्लक्षणात् / वार्तान्तरं (वेदान्तवार्ताम् ) प्राहुः सूरिवाः / (शास्त्रवार्ता) अन्ये त्वद्वैतमिच्छन्ति, सद्ब्रह्मादिव्यपेक्षया। सतो यद्भेदकं नान्य-तच्चं तन्मात्रमेव हि // 1 // अन्वयः- अन्ये, तु, सद्ब्रह्मादिव्यपेक्षया, अद्वैतम् , इच्छन्ति, यत् , सतः, अन्यत्, भेदकम् , न, हि, तत् , च, तन्मात्रम् , एव / (अव०) अन्ये-परे वेदान्तिन इत्यर्थः / तु-पुनः। सद्ब्रह्मादिव्यपेक्षया-सत्-परब्रह्मैव. आदिः सकलव्यवहारकारणं तद्वधपेक्षया-तदाश्रयणेन / अद्वैतम्-द्वाभ्यामितं गत द्वीतम् , तत्र भवं द्वैतम् , न द्वैतमद्वैतम् , एकमेव तत्त्वम् / इच्छन्ति-अभिलषन्ति / यत्-यस्माद्धेतोः। सतः-सद्रूपस्य परब्रह्मणः / अन्यत्-स्वातिरिकम् / भेदकम्-भेदप्रयोजकम् / न-नहि। हि-निश्चयेन / तत्-बुद्धिविष. यीभूतं भेदकत्वाभिमतं नीलादितत्त्वम् / च-त्वर्थकमव्ययम् / तन्मात्रम् -ब्रह्ममात्रम् / एव-अवधारणार्थकमव्ययम्। तथाच-अनवच्छिन्नस्याऽऽकाशाय घटपटाद्युपाधिभिरिवानवच्छिन्नस्य ब्रह्मणो नीलादिभिर्भेदायोगात् / किञ्च भेदस्य वस्तुस्वभावत्वे तस्यैकस्यानेकवृत्तित्वात् , वस्तूनामपि भेदो न स्यात्, नैकरमादभिन्नमभिन्नस्वभाव भिन्नं युज्यते, अर्थान्तरत्वे च तस्य वस्त्वरूपस्वात् स्व..