________________ स्तबकः ] कल्पलतावतारिका [185 विघ्नवल्ली "मयूरव्यसकेत्यादयः” 3 / 1 / 116 इत्यनेन रूपककर्मधारयः, तत्र कुठारस्वरूपम् / यदनुरागात्-यस्मिन् बुद्धिविषयीभूते भगवति पार्श्वनाथेऽनुराग: स्नेहः हेम वा यदनुरागस्तस्मिंस्तथा, यत्कर्मकानुरागवशादितिभावः / निधानम् -निधिः / सन्निधानम्-सामीप्यम्। श्रयति-अधिगच्छति प्राप्नोतीति यावत् / इह-अस्मिँल्लोके / निहतपापव्यापम्-विनाशितपादकदम्बकम् / आपद्भिदायाम्-विपत्तिभञ्जने / अतिनिपुणचरित्रम्-अत्यन्तविशुद्धचरित्रम् / तम्-श्रापत्तिभञ्जकत्वेन त्रयोविंशतीर्थकृत्त्वेन च प्रसिद्धम् / पार्श्वनाथम्तद भिधानतीर्थकृतम् / प्रणौमि-प्रकर्षण स्तवीमि। अत्र परम्परित. रूपकमलङ्कारः स्मरणे कुठारत्वारोपे विघ्ने वल्लीत्वारोपस्य कारणत्वात् / यमकश्च / (कल्पलता) .. . .... ... हंसीव बदनाम्भोजे, या जिनेन्द्रस्य खेलति। ... बुद्धिमाँस्तामुपासीत, न का शुद्धां सरस्वतीम् // 3 // अन्वयः- यः हंसी, इध, जिनेन्द्रस्य वदनाम्भोजे, खेलति, शुद्धाम् , ताम् , सरस्वतीम् , कः, बुद्धिमान् , न, उपासीत / (कल्पलतावतारिका) या-बुद्धिविषयीभूता सरस्वती। हंसी-मराली। इव-यथा। जिनेन्द्रस्य-जिनवरस्य / वदनाम्भोजे-मुखकमले। खेलति-क्रीडति / शुद्धाम्-जिनेन्द्रवदनसंसर्गात् शुद्ध-वरूपाम् / ताम्-बुद्धिविषयी. भूताम् / सरस्वतीम्-तदभिधानां वागधष्ठात्री देवीम् / क-कीरशः / बुद्धिमान-पण्डितः, प्रज्ञाशाली वा / न-नहि। उपासीत-सेवेत,