________________ 184 ] शासवार्तासमुच्चयस्य [अष्टमः शं करोतीति योगार्थतः स्पष्टम्-'त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वा' दिति भक्तामरस्तोत्रवचनमपि / यतिनाथ:-योगीन्द्रः। सः-चरमतीर्थपरत्वेन प्रसिद्धः / वर्धमानः-वर्धमानमहावीरस्वामी / जयति-विज. यते। प्रसिद्धः शङ्करः कामेन जित: कामश्चानेन विजित इति तादृश. शहरापेक्षयाऽस्योत्कर्षप्रतीतेवर्धमानयतिनाथपदपोषितो व्यतिरेकालकारः, उपमानादुपमेयस्याऽऽधिक्ये व्यतिरेक इत्यालङ्कारिकसिद्धान्तात् / देवकदम्बकविहितजानुप्रमाणकुसुमततेः प्रक्षेपस्य पराजितकामदेव. कर्तृकनिजामत्यागहेतुकत्वेन संभावनादुत्प्रेक्षाऽप्यलङ्कारः, अन्यधर्मस. म्बन्धनिमित्तेनान्यस्यान्यतादात्म्यसम्भावनस्यैव तत्त्वात् / अत्र स्तव के वेदान्ततत्त्वविचारणा प्रासङ्गिकीति- ब्रह्मसूत्रभाष्यप्रणेतुः शङ्करस्यापि स्मरणं 'शङ्करो वर्धमानः' इति व्यज्यते / (कल्पलता) स्मरणमपि यदीयं, विघ्नवल्लीकुठारः, श्रयति यदनुरागात्, सम्भिधानं निधानम् / तमिह निहतपाप-व्यापमापद्भिदाया मतिनिपुणचरित्रं, पार्श्वनाथं प्रणौमि // 2 // अन्वयः-यदोयम् , स्मरणम् , अपि, विघ्नवल्लीकुठारः, यदनुरागात्, निधानम् , सन्निधानम् , अयति, इह, निहतपापव्यापम् , आपद्भिदायाम् , अतिनिपुणचरित्रम् , तम् , पार्श्वनाथम् , प्रणौमि / (कल्पलतावतारिका) यदीयम्-यस्य-बुद्धिविषयीभूतस्य भगवतः पार्श्वनाथस्येदं यदीयम् , यत्सम्बन्धीत्यर्थः / स्मरणम्-स्मरणात्मक ज्ञानम्। अपिसम्भावनायाम् / विघ्नवल्लीकुठारः-विघ्नमन्तराय एव वल्ली वल्लरी