________________ स्तवकः ] कल्पलतावतारिका * अथाष्टमः स्तवकः ॐ अथ वेदान्ततत्त्वं प्रेक्षावत्समक्ष प्रतिक्षेप्तुमष्टमे तावछलोकत्रयमुपन्यस्यते महोपाध्यायैः। (कल्पलता) समवसरणभूमौ यस्य गीर्वाणकीर्णा, सुमततिरतिशोमा जानुदघ्नी ततान / जितकुसुमशरास्त्र - त्यागमर्थापयन्ती, स जयति यतिनाथः शङ्करो वर्धमानः // 1 // अन्वयः- घस्य, समवसरणभूमी, गीर्वाणकीर्णा, जानुदध्नी, जितकुसुमशरास्त्रत्यागम् , अर्थापयन्ती, सुमततिः, अतिशोभाम् , ततान, शङ्करः, यतिनाथः, स, वर्धमानः, जयति। (कल्पलतावतारिका) यस्य-बुद्धिविषयीभूतस्य महामहिमशालिनो भगवतो महा. वीरस्य / समवसरणभूमौ-देवविरचितसमवसरणस्थाने / गीर्वाणकीर्णा-देवकदम्बकप्रक्षिप्ता / जानुदघ्नी-जानुप्रमाणा। जितकुसुमशरास्त्रत्यागम्-कुसुमानि अरविन्दादीनि पञ्चपुष्पाणि शरा बाणा यस्य स कुसुमशरः कन्दर्पः तस्य पराजयहेतुकोऽस्त्रत्यागस्तन्तथा / तथाचोक्तम्- "अरविन्दमशोकञ्च-चूतञ्च नवमल्लिका / नीलोत्पलञ्च पबैते, पञ्चवाणस्य सायकाः” इति, अर्थापयन्ती-सूचयन्ती, सार्थकी. कुर्वन्तोति यावत् / सुमततिः-पुष्पकदम्बकम् / अतिशोभाम्-अत्यन्तरमणीयताम् / ततान-विस्तारयामास / शङ्कर:-कल्याणकारकः /