________________ 18.] शाखवातासमुच्चयस्य [ सतमः (कल्पलतावतारिका) स्याद्वादतत्त्वस्य-अनेकान्तविद्यातत्त्वस्य / प्रसरद्विवेक:विस्फुरमाणविचारः / एक:-अद्वितीयः, अपूर्व इति यावत् / अभ्यासः-परिचयः, परिशीलनमिति / परिच्छिदा-प्रमात्मकज्ञानेन / आप्यः-गम्यः, विषयीकरणीय इति यावत् / अत्र-इहलोके / कषोपलात्-निकषपाषाणात् / पर:-अन्यः / परस्य-अन्यस्य / सुवर्णशुद्धिम्-काश्चनसंशुद्धिम् , पक्षे सुन्दरवर्णसंशुद्धिम् / कषोपलात् , निकषपाषाणात् / नैव-नहि खलु / निवेदयति-बोधयत्ति, बोधयितुं शक्नोतीति / अत्र तृतीयपादे "पर: परस्मै" इति पाठो विशेषतोऽनुकूलः / केवलं कषोपलादेव सुवर्णशुद्धिः कश्चित्प्रति केनचिद्यथा निवेदयितुं शक्यते तथा स्याद्वादतत्त्वाभ्यास: केवलं परिच्छिदैव ज्ञातुं शक्यते नान्यथेति भावः / शब्दश्लेषालङ्कारः, सुवर्णशुद्धिपदपरिवर्तनाक्षमत्वात् / स्याद्वादतत्त्वमतिदुरूहमितिध्वननाद् ध्वनिकाव्यं विज्ञेयम्। (कल्पलता) माध्यस्थ्यमास्थाय परीक्षमाणाः, क्षणं परे लक्षणमस्य किश्चित् / जानन्ति तानन्तिमदुर्नयोत्था, कुवासना द्राक् कुटिलीकरोति // 10 // अन्वयः-परे, क्षणम् , माध्यस्थ्यम् , आस्थाय, परीक्षमाणाः, किश्चित्, अस्य, लक्षणम् , जानन्ति, अन्तिमदुर्नयोत्या, कुवासना, तान् , द्राक् , कुटिलीकरोति / (कल्पलतावतारिका) परे-अन्यदर्शनिनः / क्षणम्-तदात्मकसूक्ष्मकाल विशेष