________________ स्सवकः ]. कल्पलतावतारिका [181 याबदपि / माध्यस्थ्यम्-औदासीन्यम्, तटस्थताम्, पक्षपातराहित्यमिति यावत् : आस्थाय-समवलम्व्य / परीक्षमाणाः-सदसद्विवेक तारतम्यविचारणां वा विदधानाः सन्तः / किश्चित्-किमपि. अत्यल्प. मिति यावत् / अस्य-'याद्वादतत्त्वस्य / लक्षणम्-वरूपम् / जानन्तिअवबुध्यन्ते / ( परन्तु ? अन्तिमदुर्नयोत्था-स्यात्पदवञ्चितैवम्भूतात्मकदुर्नयजनिता / कुवासना-कुसंस्कारः। तान्-ज्ञातकिश्चित्तत्त्वानपि परदर्शनिनः / द्राक्-झटिति कुटिलीकरोति-सविकारान् विदधाति / सतः परं हातमपि स्याद्वादतत्त्वमन्यथयन्ति परदर्शनिनस्ते इति भावः / ध्वनिकाम्यमिदम् / अनुप्रासालङ्कारः / (कल्पलता) .. अतो गुरूणां चरणार्चनेन, कुवासनाविघ्नमपास्य शश्वत् / स्याद्वादचिन्तामणिलब्धिलुब्धः, प्राज्ञः प्रवर्तेत यथोपदिष्टम् // 11 // अन्वयः- अतः, शश्वत् , गुरूणाम् , चरणार्चनेन, कुवासनाविघ्नम्, अपास्य, स्याहादचिन्तामणिलब्धिलुब्धः, प्राशः, यथोपदिष्टम् , प्रवर्तेत / (कल्पलतावतारिका) अत:-अन्तिमदुनयोत्था कुवासना यतो द्राक् तान् कटिलान् करोति तस्माखेतोः / शश्वत्-भूयोभूयः / गुरूणाम्-धर्मोपदेशकानामाचार्योपाध्यायादीनाम् / चरणार्चनेन-पादपङ्कजपूजनेन / कुवासनाविघ्नम्-कुसंस्कारात्मकमन्तरायम् / अपास्य-दूरीकृत्य / स्याद्वादचिन्तामणिलब्धिलुब्धः-स्याद्वादोऽनेकान्तवाद एष चिन्तामणिःस्याबादः चिन्तामणिरिष वा स्याद्वादचिन्तामणिस्तस्य लब्धिः प्राप्तिस्तत्र लुब्धो लिप्सुस्तथा / प्राज्ञा-विद्वान् / यथोपदिष्टम्-गुरूणामुपदेशानु.