________________ स्तवकः ] कल्पलतावतारिका [ 176 - न्यायेषु-अन्यदर्शनेषु / यः-बुद्धिविषयीभूतः, (रस:- आस्वादः, मानन्द इति यावत् ) च-पुनः / य:-बुद्धिविषयीभूत: / कश्चनअनिर्वचनीयः, अपूर्व इति यावत् / स्याद्वादविद्याश्रयः-अनेकान्तविद्यालम्बनः। रसः-आनन्दः / (सः रस:) छेकधिया-विदग्धबुद्धया। एक:-समानः / न-नहि / गम्यते-ज्ञायते / एकान्तविद्यालम्बनो रसोऽन्यः (अपकृष्टत्वाश्रयः ) एव स्याद्वादविद्यालम्बनस्तु लोकोत्तरो विलक्षण एव तयोः साम्यलेशो नास्ति, अनेकान्तविद्याया एकान्त. विद्यासम्मिश्रणासहिष्णुत्वात्, एतदेव दृष्टान्तेन समर्थयति-यः प्रोन्मीलितमालतीत्यादिना-य:-बुद्धिविषयीभूतः / प्रोन्मीलितमालतीपरिमलोद्गारः-प्रस्फुटितमालतीकुसुमविमर्दोत्थसौगन्ध्योल्लासः / विजम्भतेविशेषेण स्फुरति, निरतिशयमोददायको भवतीत्यर्थः / सः-तादृश. परिमलोद्गारः / पिचुमन्दकन्दनिकरक्षोदात्-निम्बकन्दकदम्बचूर्णसम्मिश्रणात् / मोदावहः-प्रमोदसम्पादकः / न-नहि / भवतीतिशेषः / यथा-प्रोन्मीलितमालतीपरिमलोद्गार: स्वापकृष्टनिम्बकन्दनिकरसम्मिश्रणादशोभनो भवतीति तयोः साम्यं दुर्घटन्तथैव स्याद्वादविद्यालम्बनोऽपि रस: स्वापेक्षयाऽपकृष्टबाह्यदर्शनालम्बनरससम्मिश्रणादशोभन एव भवेदिति स्याद्वादविद्यायाः परम उत्कर्षोऽनेन ध्वन्यते / ( कल्पलता) अभ्यास एका प्रसरद्विवेकः, स्याद्वादतत्त्वस्य परिच्छिदाप्यः / "कपोपलान्नैव परः परस्य, निवेदयत्यत्र सुवर्णशुद्धिम् // 9 // ... अन्वयः- स्याद्वादतत्त्वस्य, प्रसरद्विवेकः, एकः, अभ्यासः, परिच्छिदा, आण्यः, अत्र, कषोपलात् , पर:, परस्य, सुवर्णशुद्धिम् , नैव, निवेदयति /