________________ 178 ] . शास्त्रवातासमुच्चयस्य [ सप्तमः कणाः / “त्रिषु स्फुलिङ्गोऽग्निकणः” इत्यमरः / तस्य-अग्नेः / एष-खलु / पराभवाय-पराजयाय / भवन्ति-जायन्ते / किम्प्रश्नार्थकमव्ययम् / "किं कुत्सायां वितर्के च निषेधप्रश्नयोरपि” इति मेदिनी / यथाऽग्नेः सकाशादुत्पन्नास्तदंशभूताः स्फुलिङ्गा न तस्यैव * पराभवाय भवन्ति प्रत्युत तत्सहायभूता एव जायन्ते तथैव स्याद्वाददर्शनस्य पृथगेकदेशभूता एव परेषां नयाः (अंशतः स्याद्वादप्रतिपादकाः साकल्येन तदप्रतिपादकाः) अंशिभूतस्य स्याद्वाददर्शनस्यैव परिक्लेशाय नैव भवितुमर्हन्ति, उपजीव्यर्विरोधादिति भावः। दृष्टान्तालङ्कारः "दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम्" इति तल्लक्षणम् / (कल्पलता) एकश्छेदधिया न गम्यत इह, न्यायेषु बाह्येषु यो, देशप्रेक्षिषु यश्च कश्चन रसः, स्याद्वादविद्याश्रयाः ? यः प्रोन्मीलितमालतीपरिमलो-गारः समुज्जम्भते, स स्वैरं पिचुमन्दकन्दनिकर-क्षोदान मोदावहः // 8 // अन्वयः-इह, देशप्रेक्षिषु, बाह्येषु, न्यायेषु, यः, च, यः, कश्चन, . स्याद्वादविद्याश्रयः, रस: (स:) छेकधिया, एकः, न, गम्यते, यः, प्रोन्मीलितमालतीपरिमलोद्गारः, (मोदावहः) समुज्जृम्भते, सः, स्वैरम् , पिचुमन्दकन्दनिकरक्षोदात्, मोदावहः, न / (कल्पलतावतारिका) इह-एषु / देशप्रेक्षिषु-देशमेकदेशम् , कञ्चिदेवांशमिति यावत् प्रेक्षन्ते तच्छीला देशप्रेक्षिण: "अजातेः शीले" 5 / 1 / 154 // इत्य. नेन शीलेऽर्थे णिन् प्रत्ययः, तेषु तथा / बाह्येषु-अनेकान्तबहिर्भूतेषु /