________________ स्तबकः ] कल्पलतावतारिका [ 177 बघ्नीयु:-प्रतिबध्नीयुः वाधेरन्नितियावत् / विषज्वालाभयङ्कराः पन्नगा यथा गरुत्मन्तं नो जयन्ति, प्रचुरबलशालिनो मतङ्गजा यथा केसरिण नाकामन्ति घनान्धकारनिकरा अपि यथा सूयं स्थगयितुं न प्रभवन्ति तथैवान्येषां विस्तृता दुर्नया अपि स्याद्वादविद्यां बाधितुं न शक्नुवन्तीति व्यङ्ग यस्यैवार्थस्य प्रकारान्तरेण प्रतिपादनात् पर्यायोक्तमलङ्कारः, तस्य ध्वनावन्तर्भावो ध्वन्यालोकादौ द्रष्टव्यः / अनुप्रासः शब्दालङ्कारो निदर्शना चार्थालङ्कारो द्रष्टव्यः। “अनुप्रास: शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्" "अभवन्वस्तुसम्बन्ध उमापरिकल्पकः” इति तयोर्लक्षणतः / “सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनम् / यद् व्यङ्ग यस्याङ्गिभूतस्य तत्पूर्ण ध्वनिलक्षणम्" इतिध्वन्यालोके श्रीमदानन्दवर्धनाचार्य्याः / (कल्पलता) नयाः परेषां पृथगेकदेशाः, क्लेशाय नैवाहतशासनस्य / सप्तार्चिषः किं प्रसृताः स्फुलिङ्गा, भवन्ति तस्यैव पराभवाय // 7 // अन्वयः-पृथगेकदेशाः, परेषाम् , नयाः, आर्हतदर्शनस्य, कशाय, नैव, सतार्चिषः, प्रसृताः, स्फुलिङ्गाः; तस्य, एष, पराभवाय, भवन्ति, किम् / (कल्पलतावतारिका) ... पृथगेकदेशाः-पृथग्भूताः स्याद्वावाद्यंशरूपाः। परेषाम्-अन्य. दर्शनिनाम् / नया:-स्वस्वसिद्धान्ततत्त्वप्रतिपादकवचनप्रकाराः / आहेतदर्शनस्य-स्याद्वादविद्यायाः / क्लेशाय-परिक्लेशाय, पराभवादिहेतवे इति यावत् / नैव-नहि खलु / भवन्तीतिशेषः / दृष्टान्तेन समर्थयति- सप्तेत्यादि-सप्त-सप्तत्वसंख्याकानि अर्चीषि ज्वाला यस्य स सप्ताचिरग्निस्तस्य तथा / प्रस्ताः-प्रसरणशालिनः / स्फुलिङ्गा: