________________ 276 ] शास्त्रवार्तासमुच्चयस्य ( कल्पलता) . ..व्यालाश्चेद् गरुडं प्रसर्पिगरल-ज्वाला जयेयुजवाद् , .. गृह्णीयुर्द्विरदाश्च यद्यतिहठात्, कण्ठेन कण्ठीरवम् // सूरं चेत् तिमिरोत्कराः स्थगयितुं, व्यापारयेयुर्बलं, बध्नीयुर्बत दुर्नयाः प्रसृमराः, स्याद्वादविद्यां तदा // 6 // अन्वय-प्रसर्पिगरलज्वाला:, व्याला:, चेत्, जवात् , गरुडम् , जयेयुः, च, यदि, द्विरदाः, अतिहठात् , कण्ठेन, कण्ठीरवम् , गृहणीयुः, चेत्, तिमिरोत्कराः, सूरम् , स्थगयितुम् , बलम् , व्यापारयेयुः, बत ! तदा, प्रसृमराः दुर्नयाः, स्याद्वादविद्याम् , बध्नीयुः / (कल्पलतावतारिका) प्रसर्पिगरलज्वाला:-प्रसर्पिण्यो विस्फुरन्त्यो गरलज्वालाविषज्वाला येषान्ते तथा / व्याला:-सर्पाः / चेत्-यदि / जवात्वेगात् / गरुडम्-वैनतेयम् खगेश्वरमिति यावत् / जयेयु:-परिभावयेयुः / च-पुन: / यदि-चेत् / द्विरदाः-द्वौ रदौ दन्तावेषामिति द्विरदा हस्तिनः,दन्तादीनां द्वित्वविशिष्टजातिवाचकत्वात्। अतिहठातअत्यन्तं प्रसह्य / कण्ठेन-कण्ठावच्छेदेन / कण्ठीरवम्-सिंहम् / गृह्णीयुः-धरेयुः / चेत्-यदि / तिमिरोत्करा:-अन्धकारनिकरा: / सूरम्-सूर्य्यम् / स्थगयितुम्-आच्छादयितुम् / बलम्-सामर्थ्यम् / व्यापारयेयुः-प्रकाशयेयुः / बत-खेदार्थकमव्ययम् / तदा-तर्हि / प्रसृमराः-प्रसरणशोला: / दुर्नयाः-परदर्शनिस्वीकृतकुत्सितनयाः / स्याद्वादविद्याम्- अनेकान्तविद्याम् , आहेतदर्शनमिति यावत् /