SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ स्तवकः ] कल्पलतावतारिका / 175 रूप तदेवान्यगुणानामपीत्यात्मरूपेणाभेदवृत्तिः / य एव चाधारोऽर्थो व्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः। य एव चासमन्ताद्भावः सम्बन्धोऽस्तित्वस्य स एवान्येषामपि घटवृत्तिधर्माणामिति सम्बन्धेनाभेदवृत्तिः। य एव चास्तित्वेन वस्तुन: स्वप्रकारक. प्रतीतिविषयत्वलक्षण उपकारोऽस्ति स एवान्येषामपीत्युपकारेणाप्य. भेदवृत्तिः / य एव च गुणिन: (घटात्मकद्रव्यस्य) सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्येषामिति गुणिदेशेनाभेदवृत्तिः। य एव च वस्तुनः संसर्गोऽस्तित्वस्याऽऽधाराधेयभावलक्षण: स एवान्येषामिति संसर्गेणाभेदवृत्तिः / य एव च "अस्ति" इति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एवाशेषानन्तधर्मात्मकस्यापीतिशब्देनाभेदवृत्तिः / अतो हेतोरनेकान्तमतमवलम्ब्यैव सम्यग्मानव्यवस्थानात् , केवलं स्याद्वादिनो नियमेन निश्चयो युज्यते, तथाहि-न तावदध्यचादेकान्तसिद्धिः अनेकान्तस्यैव सर्वैरध्यक्षमनुभवात् , एकस्यैव वस्तुनो वस्त्वन्तरसम्बन्धाविर्भूतानेकसम्बन्धिरूपत्वात् , पितृपुत्रभ्रातृभागिनेयत्वादिविशिष्टैकपुरुषवत.। ____ अत एव परदर्शनाभिमतेऽर्थे स्यात्कारमात्रेण स्वावधारणसम्भवात् कर्मदोषादज्ञाननिमग्न परं पश्यतः स्याद्वादिनो भवति साम्यसम्पत्तिः, परेषान्तु स्वपक्षसिद्धावन्योन्य कलहायमानानां यावज्जीवमपि वक्तृविकल्पानुपरमेण द्वेषानुच्छेदान्नास्त्येव साम्यवार्ताकणिकापीति संसारहेतुत्वात्तेषां ज्ञानमप्यज्ञानमिति परमप्रावचनिकाः परिभापन्ते। ततो मिध्यादर्शनगरलव्यथानिवृत्तये स्याद्वादामृतपानमेव विधेय विवेकिना। तथा चाहुरूपाध्यायाः
SR No.004491
Book TitleKalplatavatarika
Original Sutra AuthorN/A
AuthorAmrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1958
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy