________________ 174 ] शास्त्रवार्तासमुच्चयस्य [सप्तमः सावयवात्मकस्य निरवयवात्मकस्य चान्योन्यनिमित्तस्य जिज्ञासायां चतुर्थादिप्रथमादिविकल्पानामेव प्रवृत्तिः। किञ्च मेण धर्मद्वयं गुणप्रधानभावेन प्रतिपादयन् प्रथमद्वितीयावेवभङ्गावाददीत युगपत्तु द्वयमभिधित्सुस्तृतीयमेव, क्रमेण प्राधान्येन द्वयमभिधित्सुराधद्वितीयसंयो. गनिष्पन्नं चतुर्थमेव, एकं विभज्यापरं चाविभज्याभिधित्सुः प्रथमतृतीयसंयोगनिन्दन्नं पश्चमम् , द्वितीयतृतीयसंयोगनिष्पन्नं षष्ठं वा, द्वौ देशौ विभज्य तृतीयं चाविभज्याभिधित्सुराद्यद्वितीयतृतीयसंयोग. निष्पन्नं सप्तममेवेति चतुरादिदेशोपादानेऽपि द्वित्र्यादीनामेकविभाजकोपरागविश्रामाद् न सप्तमाद्यतिक्रमः, एककरदण्डसंयोगे करद्वयदण्ड. संयोगे वा दण्डित्वाविशेषात् / इयं सप्तभङ्गी प्रतिभङ्ग द्विविधा भवति सकलादेशस्वभावा, विकलादेशस्वभावाच, तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः काला. दिभिरभेदवृत्तिप्राधान्यात् अभेदोपचाराद्वा यौगपान प्रतिपादकं वचः सकलादेश: तद्विरीतो विकलादेशः / तत्र द्रव्यार्थिकनयगृहीतसत्ताद्यभिन्नानन्तधर्मात्मकवस्तुशक्तिकस्य सदादिपदस्य कालाद्यभेदविशेषप्रतिसन्धानेन पर्यायार्थिकनयपर्यालोचनप्रादुर्भवच्छक्यार्थबाधप्रतिरोधोऽ. भेदवृत्ति प्राधान्यम् , अभेदोपचारश्च पर्यायार्थिकनयगृहीतान्यापोहपर्यवसितसत्तादिमात्रशक्तिकस्य तात्पर्य्यानुपपत्त्या सदादिपदस्योक्तार्थे, लक्षणात्मकः / तत्र कालादय इमेऽष्टौ कथिता:- कालः, भास्मरूपम् , अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्द इति च तत्र केन कथं तेषामभेदवृत्तिरिति चेत् , अत्रोच्यते यत्कालमस्तित्वं तत्काला: शेषानन्तधर्मा वस्तुन्येकडेति तेषामनन्तधर्माणां कालेनाभेदवृत्तिः / यदेव चास्तित्वस्य तद्गुणत्वमात्म