________________ स्तवकः ] कल्पलतावतारिका [ 171 ___ स्यात्कार प्रयोगश्च सापेक्षप्रतिनियतस्वरूपप्रतिपत्तये यत्रापि चासो -(स्यात्कारः) न प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारवदर्थात् प्रतीयते, तदुक्तम् "सोऽप्रयुक्तोऽपि वा तज्ज्ञैः, सर्वत्रार्थात् प्रतीयते / यथैवकारोऽयोगादि-व्यवच्छेदप्रयोजनः // 1 // ... तत्र स्वरूपेण घटादिनाऽस्तित्वविवक्षयाऽसत्त्वोपसर्जनसत्त्वप्रतिपादनपर: प्रथमो भङ्गः। पररूपेण पटत्वादिना नास्तित्वविवक्षया च सत्त्वोपसर्जनाऽसत्त्वप्रतिपादनपरो द्वितीयो भङ्गः / शब्दशक्तिस्वा. भाव्यादेकोपसर्जनेतरप्रधानभावेनैव शान्दया: प्रतीतेर्भावात् / यदा तु तद्वस्तु द्वाभ्यामपि धर्माभ्यां युगपदभिधातुमिष्टन्तदा तृतोयो भङ्गः, नहि द्वयोधर्मयोयुगपत् प्राधान्येन गुणीभावेन वा प्रतिपादने किश्चिद्वस्तु समर्थमस्ति, तथाहि-न तावत् समासो द्वयोधर्मयोर्युगपत् प्राधान्येन गुणीभावेन वा प्रतिपादने कश्चित् समर्थः, बहुव्रीहेरन्यपदार्थप्रधानत्वात् , अव्ययीभावस्य विषयाभावात्, द्वन्द्वस्यापि द्रव्यवृत्तेः प्रकृतार्थप्रतिपादकत्वाभावात् ,गुणवृत्तेरपि द्रव्याप्रितगुणप्रतिपादकत्वेन प्रध-नभूतयोर्गुणयोरप्रतिपाद्यत्वात् , तत्पुरुषस्याप्युत्तरपदार्थप्रधानत्वात् , द्विगो: संख्यावाचिपूर्वपदकत्वात् , कर्मधारयस्य गुणाधारद्रव्यविषय. स्वात्,एकशेषस्य चासम्भवात्, द्वन्द्वतुल्यत्वाच / न च समासान्तरसद्भावोऽस्ति येन युगपद् गुणद्वयं समासपदवाच्यतामारकन्देत् , मत एव न विग्रहवाक्यमपि तथा तस्यापि वृत्त्यार्थवबोधकत्वेन वृत्त्यभिन्नार्थ. त्वात् , नच केवलं पदं वाक्यं वाऽन्यल्लोकप्रसिद्धं तथा, तस्यापि पर. स्परापेक्षद्रव्यादिविषयतया तथाभूतार्थप्रतिपादकत्वायोगात् / नच सूर्याचन्द्रमसोः पुष्पदन्तपदवत् शतृशानयोः सत्पदवद्