________________ 17. ] शास्त्रवार्तासमुच्चयस्य . [सप्तमः / सिद्धम् "द्रव्यजन्यतावच्छेदकतया तत्सिद्धिरपि कल्पलतायां निरस्ता वेदितव्या, तस्मादुत्पादव्ययध्रौव्ययोगरूपैव सत्ता युक्ता, नान्येति / नचैवमपि" यधुत्पादव्ययध्रौव्ययोगादसतां सत्त्वम् , तदा शशशृङ्गा. देरपि स्यात् / स्वतश्चेत् , स्वरूपसत्त्वमायातम् / तथा "उत्पादव्यय. धौव्याणामपि यद्यन्यतः सत्त्वम् , अनवस्थाप्रसङ्गो दुर्वारः। स्वतश्चेत् , भावस्यापि स्वत एव तद् भविष्यति, इति व्यर्थमुत्पादादिकल्पनम्" इत्यादिप्रश्नानामवकाश: पर्याप्तः, एकान्तपक्षोदीरितदोषस्य जात्यन्त. रात्मके वस्तुन्यप्रसरात् / नहि भिन्नोत्पादव्ययध्रौव्ययोगाद् भावस्य सत्त्वमस्माभिः ( आर्हतैः ) स्वीक्रियते, किन्तूत्पादव्ययध्रौव्ययोगात्म. कमेव सत् स्वीक्रियते, तत्र सत्त्वं सकलव्यक्त्यनुगतं व्यञ्जनप-- यताम् प्रतिव्यक्त्यनुगतं चार्थपर्यायतामास्कन्दति, इत्थमेव सादृश्या. स्तित्व स्वरूपास्तित्व मित्यपि गीयते / तञ्च सत्त्वं सापेक्षमेव सर्वैरनुभूयते, मार्तत्वादिना घट: सन् नतु तन्तुजनितत्वादिना "इदानी घट: सन् नतु प्राक्" इत्याद्यनुभवात् / बुद्धिविशेषकृतापेक्षयाप्यादेशापरा. भिधानया सापेक्षमेव तत् , यथा "अयमेकः अयं चैकः” इति कल्प. नाकृतापेक्षया द्वित्वादीति / एवञ्चेह सप्तभङ्गी प्रवर्तते, तथाहि-स्यादस्त्येव, स्यानास्त्येव, स्यादवक्तव्यमेव, स्यादस्त्येव स्यान्नास्त्येव, स्यादस्त्येव स्यादवक्तव्यमेव, स्यान्नास्त्येव स्यादवक्तव्यमेव, स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेव / एषु सप्तस्वपि प्रकारेष्वेवकारप्रयोगोऽनभिमतार्थव्या. वृत्यर्थम् , अन्यथा प्रतिनियतस्वार्थानभिधानेनानभिहिततुल्यतापत्तः / तथाचोक्तम् वाक्येऽवधारणं तात्र-दनिष्टार्थनिवृत्तये / कर्तव्यमन्यथाऽनुक्त-समत्वात्तस्य कुत्रचित् / /