________________ स्तबकः ] कल्पलतावतारिका - ऽसत्त्वरूपमित्यर्थः / अध्यक्षम्-प्रत्यक्षं यथा स्यात्तथा / अवैतिजानाति / तत्-सर्वसाधारणजनैः प्रत्यक्षी क्रियमाणमपि तादृशं रूपम् / वाचा-वचनमात्रेण / किम्-कथम् / अपहषे-अपलपसि / किमुतआहोस्वित्। अतिमूकः-अत्यन्तं वाक्छक्तिविवर्जितो जनः / गुडस्यशर्करायाः। माधुर्य्यम्-मधुरिमाणम् / इव-यथा / मन्दः-स्वल्पधीः / (त्वम्-नैयायिकपिशुन: ) वक्तुम्-निगदितुम् / न-नहि / शक्त:समर्थः / असि-भवसि / छेकानुप्रासो दृष्टान्तश्चालङ्कारी। ___ तथाहि-नैयायिकाङ्गीकृता सत्ता तावत् समीचीनाऽऽहंततर्कसन्ताडिता दूरमेव पलायिता, नहि स्वरूपसतां भावानां कयाचिदतिरिक्तसत्तया काश्चिदुपकारोऽस्ति स्वतो मधुराया इव सुधाया मधुरद्रव्यान्तरसंयोगेन / नापि स्वरूपामतां तेषां तया कश्चिदुपकारः, खलानामिव सकलार्थसिद्धिहेतुना विपश्चित्प्रपश्चितकलालापेन / कथं च तस्य ( नैयायिकस्य ) जात्यादिषु सद्व्यवहार: तन्मते सत्ताया द्रव्यादित्रये एव स्वीकारेण तत्र सत्ताया अभावात् , एकार्थसमवायेन जात्यादिषु सद्व्यवहार इति न, “इदं सत्” “इदं सत्” इति प्रतीतेः सर्वत्र समानाकारत्वात् / सम्बन्धांशे तस्याः ( प्रतीतेः ) वैलक्षण्य. मेवेति चेत् / हन्त ! प्रकारांशेऽपि तथात्वे बाधकाभाव एवास्तु / अथवा "हरिः" "हरिः" इत्यादौ हरिपदवाच्यत्वमिव सत्पदवाच्यत्वमेव सर्वत्रानुगतमस्तु / सत्पदसङ्केतविषयतावच्छेदकतयैव तत्सिद्विरिति चेत् न, तान्त्रिकाणां परस्परं तत्सङ्केतभेदात् , स्वसङ्केतमात्रस्य चार्थाव्यवस्थापकत्वात् / “घट: सन्" इत्यादावनुभवसिद्धैव सत्तेति चेत् सिद्धैव सा, केवलं तस्या अतिरेक: साधारण्यं च न