________________ 168 ] शास्त्रवार्तासमुच्चयस्य . [ सप्तमः घातकमिति चेत्, एतादृशस्य परासत्त्वस्य तत्त्वतोऽभावात्, शशशृङ्गवत् , परासत्वस्य तत्त्वत इह ( स्वस्मिन् ) अभावात् को दोष इति चेत् परसत्त्वस्याऽऽपत्तिरेवेति विज्ञेयम् / - अथात्र नैयायिकाः प्रत्यवतिष्ठन्ते ननु वयं 'शृङ्गे शशीयत्ववत् सत्त्वाऽसत्त्वयोः स्वपरापेक्षत्वं कल्पितम्' इत्येव ब्रूमः, न हि सत्त्वे स्वापेक्षत्वं पृथक्त्वादाविव सावधिकत्वरूपम् , निरवधिकत्वात् सत्तायाः / नापि घटाभावे घटापेक्षत्ववत् सप्रतियोगिकत्वरूपम् , निष्प्रतियोगिकत्वात् , भावस्य सत्ताभावस्य च सप्रतियोगिकत्वेऽपि सत्ताप्रतियोगिकत्वमेव न तु परप्रतियोगिकत्वम् इति न परापेक्ष. त्वमस्ति / नापि वृक्षे संयोगतदभावयोर्मूलशाखाद्यवच्छिन्नत्ववद् घटे सत्त्वाऽसत्त्वयोः स्वपरावच्छेद्यत्वरूपं स्वपरापेक्षत्वम् जांतेरेवाव्याप्यवृत्तित्वाभावात् , किं पुन: सत्तायाः ? इति ततः कथं स्वापेक्षया सत्त्वम् , परापेक्षया चासत्त्वमित्याहतानामयं प्रवाद इति / .. अत्रोपाध्यायाः(कल्पलता) / रूपं यदध्यक्षमवैति लोको, वाचाट ! वाचा किमपढ्षे तत् / वक्तुं न शक्तः किमुतासि मन्दो, गुडस्य माधुर्य्यमिवातिमूकः॥ - अन्वयः-- वाचाट ! लोकः, यत् , रूपम् , अध्यक्षम् , भवैति, तत्, वाचा, किम् , अपहुषे, किमुत, अतिमूकः, गुडस्य, माधुर्यम् , इव मन्दः, (स्वम् ) वक्तुम्, न, शक्तः, असि / (कल्पलतावतारिका) . .. वाचाट !-बहुगमुभाषिन् नैयायिकपाश ! लोकः-साधारणी. ऽपि जनः / यत्-बुद्धिविषयीभूतम् / रूपम्-स्वापेक्षसत्त्वपरापेक्षा