________________ स्तवका ] कल्पलतावतारिका [ 167 अन्ये त्याहुः-दृष्टान्त एवायमसिद्धः, भिन्नापेक्षयोरणुत्वमहत्व. योरेवाभावात् , महत्यपि महत्तमादणुव्यवहारस्यापकष्टमहत्वनिबन्धनत्वेन भाक्तत्वात् , नित्यानित्ययोरणुत्वयोः परमाणुद्वथणुकयोरेव भावात् , एतत्त्रुटावेव विश्रामाद् नास्त्येवाणुत्वम् , त्रुटौ चापकृष्टं महत्वमेवाणुत्वव्यवहारनिवन्धनम् , तच्च नित्यमेव, गगनमहत्त्वावघिकस्त्वपकर्षो न बहुत्वजन्यतावच्छेदकः, त्रुटिमहत्वावधिकोत्कर्षण सांक-पत्त्या तस्यानुगतस्याभावात् , त्रुटिमहत्त्वावधिकोत्कर्षस्य तज्जन्यतावच्छेदकत्वात् , गगनमहत्त्वादेरपि जन्यत्वापातात् , व्यञ्जकत्वं च जातिविशेषेण शक्तिविशेषेण वा "इति नेन्धनादिसंसर्गिणां सूक्ष्मवहन्यादीनां महतां सतामन्धकारे इन्धनादिव्यञ्जकत्वापत्तिः" इति तु मीमांसकानुसारिण:-ते खलु भ्रान्ता एव, "अयमितो महान् इतवाणुः” इति बुद्ध चैकत्र भिन्नापेक्षयोरणुत्वमहत्वयोर्विलक्षणयोरेवानुभवात् "इतोऽणुः" इति प्रयोगम् "एतदपकृष्टमहत्त्ववान्" इत्युपचारेण विवृत्यैतदपेक्षयाऽणुत्वपर्यायापलापे "इतो महान्" इत्यपि "एतदपकृष्टाणुत्ववान्" इति विवृत्य समर्थयतो महत्त्वमेव चापलपतः क: प्रतीकारः 1 महत्त्वमपेक्षां विनैव स्वरसतोऽनुभूयत इति चेत् / सोऽयं स्वरस: परस्परमस्वरसपरिमाणमात्रमेव निरपेक्षमनुभूयते, महत्वाणुत्वे तु सापेक्षे एवेति पुनरनेकान्तेऽनुभवसिद्धो विवेकः / अथ महत्त्वापलापे तदाश्रयस्य प्रत्यक्षत्वं दुर्घटम् , महदुद्भूतरूपवद्द्रव्यस्यैव चाक्षुषत्वनियमात् , अणुत्वापलापे तु न किञ्चिद्वाधकमिति चेत् न, लाघवादुद्भूताणुत्वस्यैव द्रव्यचाक्षुषहेतुत्वात् , उत्कर्षापकर्षावपि परस्याऽऽपेक्षिकाणुत्वमहत्त्वातिरिक्तौ दुर्वचौ, जातिरूपयोस्तयोतुमराक्यत्वात् / एतत् परासत्त्वं परिकल्पितमतो न स्वसत्त्वव्या