________________ शास्त्रवार्तासमुच्चयस्य [ सप्तमः साधुत्वापत्तेः, श्यामान्यरूपवत्त्वस्य व्यवच्छेद्यत्वे च साधुत्वापत्तिरेव "अयं श्याम एव" इत्यस्य / नचात्रैतवृत्तिश्यामान्यरूपे एतत्कालवृत्ति. त्वव्यवच्छेदं लक्षणादिना प्रतियतोऽप्रामाण्यम्, अन्यस्य तु प्रामाएयमेवेति वाच्यम् , स्वरसत एव तत्राऽप्रामाण्यव्यवहारात् / अथ च चित्रे घटेऽव्याप्यवृत्तिनानारूपसमावेशवादिनाम् "प्रय नील एव" इति कथन्न प्रयोगः ? न च नीलान्यसमवेतत्वस्यैवान व्यवच्छेद्यत्वाद् नायं दोष इति चेन्न "गगनं नीलमेव" इति प्रतीतिप्रसङ्गात् / न च नीलसमवेतत्वस्यापि प्रत्ययात् गगने च तदभावान्न तथाप्रतीतिप्रसङ्ग इति वाच्यम् तथापि "रूपं नीलमेव" इति प्रत्ययप्रसङ्गात् , जायत एव नील नीलमेवेति चेत् जायते तदा गुणवृत्तिना नीलपदेन, न तु द्रव्यवृत्तिना, आपाद्यते तु द्रव्यवृत्तिना तेनेति / नीलसमवेतद्रव्यत्वमप्यत्र प्रतीयत इति चेत् न, अन्यत्र "नील एव" इत्यतोऽनीलत्वव्यवच्छेदमात्रस्यैव प्रतीतेः / प्रकृतेऽपि नीलावयवमधिकृत्य "इह नील एव" इत्यप्रत्ययप्रसङ्गाच्च, तस्मात् तत्तत्कालदेशाचशापेक्षयैव विधिर्व्यवच्छेदो वा प्रतीयते इति सम्यगवहितैः परिभावनीयम् / यदि कश्चित् "प्रत्यक्ष स्वमानत्वमेवाऽनुमानत्वमिति न सर्वथा मानत्वक्षतिरिति ब्रूयात्, तदपि नो समीचीनम्, यतो हि सर्वभावानां स्वसत्त्वं परासत्त्वं वा नाभ्युपगन्तव्यम् किन्तु कथञ्चिदन्यत्, अभिन्ननिमित्तस्वे सत्त्वस्यैवासत्त्वविरोधात् , भिन्ननिमित्तत्वे तु कथञ्चिद्भिप्रमुभयमेकरूपतामासादयेदपि, यथैकापेक्षयाऽणुरेवाऽपरापेक्षया महा. निति / तथाचोक्तं प्रतीत्यसत्याधिकारे भाषारहस्ये * भिन्ननिमित्तत्तणो ण य तेसिं हंदि भण्णइ विरोहो / वजयघडयाई होइ णिमित्तं पि इह चित्तम् // 1 // भिन्ननिमित्तत्वतो न च तेषां हन्त भण्यते विरोधः / व्याकघटकातीतं भवति निमित्तमपीह चित्रम् // 1 //