________________ स्तवकः / कल्पलतावतारिका [ 165 देन तादृशमानत्वावच्छिन्नाभावस्य सत्त्वात् तत्र तव्यवच्छेदायोगात् , प्रत्यक्षत्वावच्छिन्नाधिकरणताकस्य च तादृशाभावस्य सिद्धथसिद्धिपराहतत्वेन व्यवच्छेत्तमशक्यत्वात् / अथ वैशिष्यव्यासज्यवृत्तिधर्माव. च्छिन्नाधिकरणताकाभावसत्त्वे तदन्यत्वमप्युपादेयमिति चेत् न, य एव हृदे वह्नयभावः स एव हृदपर्वतयोः इत्येकत्वप्रत्ययात् , व्यधिकर. णधर्मावच्छिन्नाधिकरणताकायभावस्य सत्त्वाञ्च, शुद्धाधिकरणताकत्वविशिष्टविशेषणतया तदन्यत्वस्य व्यवच्छेत्तु शक्यत्वाद् न दोष इति चेत् न, “मानत्वेन घटौ मानमेव” इति प्रतीतिप्रसङ्गात् / तत्र निरुक्त. विशेषणतयाऽपि मानान्यत्वमस्तीति चेत् तयैव तर्हि प्रत्यक्षेऽपि तदिति दोषस्तदवस्थ एव तदधिकरणवृत्तित्वान्तर्भावे च भावाभावकरग्वितैकवस्त्वापात इति दिक। तस्मात्तत्तदपेक्षागर्भतत्तदनेकपर्यायकरम्बितत्वाद् वस्तुनस्तथाप्रयोगे तत्तदपेक्षालाभार्थ स्यात्कारमेव प्रयुञ्जते प्रामाणिकाः, अन्यथा निराक क्षमे सर्व वाक्यं प्रसज्येत / इत्थश्च स्यात्प्रत्यक्षं मानमेव "स्याद् न मानमेव" इत्याद्येव प्रयुज्यमानं शोभते, अनेकान्तद्योतकेन स्यात्पदेन तत्तदपेक्षोपस्थितेः,अन्यथा मानत्वस्य मानान्यत्वव्यवच्छेदस्य च सकलमानव्यक्त्यपृथग्भूतस्य सापेक्षप्रत्यक्षापृथग्भावप्रतीतौ तदपेक्षाऽविषयत्वरूपाऽप्रामाण्यापातात् / न चेदेवम् पाकरक्ते घटे "अयं श्याम एव" इति कुतो न प्रयोगः ? कथश्चैतदप्रामाण्यं सकलसिद्धम् ? नह्यत्र न श्यामत्वाभावस्य श्यामान्यत्वस्य वा व्यवच्छेदः, श्यामान्यत्वस्याव्याप्यवृत्तित्वेऽपि प्राक् तदभावात्, व्याप्यवृत्तित्वे च सुतराम् / “श्याम एव" इत्यत्र श्यामान्यरूपवान् व्यवच्छेद्यः, व्यवच्छेदश्चात्रान्योन्याभावः, सचाव्याप्यवृत्तिरिति न दोष इति चेत् न, प्राक् श्याम एव इत्यस्य