________________ 164 ] शास्त्रवार्तासमुच्चयस्य [सप्तमः भुंक्ते जलान्यद् न भुक्ते इति। "पार्थ एव धनुर्धरः" इत्यत्र पार्थो धनुर्धरः, पार्थान्यो न धनुर्धरः / “शङ्खः पाण्डुर एव" इत्यत्र शङ्खः पाण्डुरः, न पाण्डुरान्यः इति निगदन्ति। - अत्रोपाध्यायाः-"प्रत्यक्ष मानमेव" इत्यत्र मानत्वायोगव्यवच्छेदोऽस्तु, मानान्ययोगव्यवच्छेदो वा, तथापि प्रत्यक्षेऽनुमानत्वेन न मानत्वम् प्रत्यक्षमनुमानत्वेन न मानम्' इति प्रतीत्या विशेषरूपेण सामान्याभावस्य विशेषरूपेण सामान्यभेदस्य वा सिद्धौ न सर्वथा तद्वयवच्छेदः शक्यः, शक्य एव मानत्वत्वपर्यावावच्छिन्नप्रतियोगिताकोऽयोगः, मानत्वत्वपर्याप्तावच्छिन्नप्रतियोगिताको वाऽन्ययोगो व्यव. च्छेत्तम् , विशेषरूपेण सामान्याभावस्यातिरेके तस्य विशेषरूपपर्याप्तावच्छिन्नप्रतियोगिताकत्वात्, अनतिरेके च विशिष्टरूपपर्याप्तावच्छिन्नप्रतियोगिकत्वादिति चेत्- न, तव विशिष्टानतिरेकेण शुद्धापर्याप्तस्य विशिष्टापर्याप्तत्वात् , अतिरिक्तपर्याप्तिकल्पने तत्र विशिष्टनिरूपितत्वतत्सम्बन्धादिगवेषणायामनवस्थानात् , "अनुमानत्वेन न मानत्वम्" इत्यत्रामानत्वस्य मानत्वाऽवृत्तितया व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकामावपर्यवसानात् , अनुमानेऽपि तथाप्रयोगप्रसङ्गात् / __किञ्च व्यधिकरणधर्मावच्छिन्नाभावस्य प्रामाणिकत्वाद् मानत्वावच्छिन्नप्रतियोगिताकस्य घटाभावस्य प्रत्यक्षे सत्त्वात् कथं तद्व्यव. च्छेदः ? मानत्वावच्छिन्नमाननिष्ठप्रतियोगिताकस्य सामान्यरूपेण विशेषाभावसत्त्वे वा तादृशतत्सामान्यनिष्ठप्रतियोगिताकस्याभावस्य व्यवच्छेद्यत्वाद् न दोष इति चेत् न, मानत्वेन मानघटोभयाभावस्य तयात्वात् / मानमात्रनिष्ठप्रतियोगितोपादानाद् न दोष इति चेत न, तथापि "प्रत्यक्षघटौ न मानम्" इति प्रतीतेः / प्रत्यक्षघटोभयत्वावच्छे.