________________ स्तवकः ] कल्पलतावतारिका [ 163 अत्रेयमेवकारमर्यादाऽवसेया, तथाहि-विशेष्यसङ्गतैवकारस्यान्ययोगव्यवच्छेदोऽर्थः, यथा “पार्थ एव धनुर्धरः” इत्यादौ, विशे. षणसङ्गतैवकारस्यायोगव्यवच्छेदोऽर्थः, यथा "शङ्खः पाण्डुर एव" इत्यादौ, क्रियासङ्गतैवकारस्यात्यन्तायोगव्यवच्छेदोऽर्थः, यथा “सरोज नीलं भवत्येव" इत्यादौ / अत्र तत्तद्विशेष्यसङ्गतैवकारादेस्तत्तदन्ययोगव्यवच्छेदादौ शक्तिरिति / अपरे पुनः एवकारस्यात्यन्ताभावः, अन्योन्याभावश्चार्थः / "पृथिव्यां गन्धः” इत्यत्र पृथिवीपदे पृथिव्यन्यस्मिल्लक्षणया गन्धे प्रकृत्यान्वितविभक्त्यर्थस्य लाक्षणिकार्यान्वितविभक्त्यान्वितस्यैवकारार्थव्यवच्छेदस्य वाऽन्वयः / “पार्थ एव धनुर्धरः" इत्यत्र शक्ये पार्थे विशेषणस्य धनुर्धरस्य तादात्म्येन, लक्ष्ये च पार्थान्यस्मिन् धनु. धरान्योन्याभावस्याधाराधेयभावेन / "शीत एव स्पर्शो जलवृत्तिः" इत्यत्र शीतपदोपस्थापितयोः शीततदन्ययोरभेदेन स्पर्शेऽन्वयः, शीता. न्वितस्पर्शे जलवृत्तितादात्म्यम्, शीतान्यस्पर्शे च जलवृत्तेरन्योन्या. भाववत्त्वं प्रतीयते” इति वदन्ति / ' - अन्ये च-अन्यो व्यवच्छेदश्च तदर्थः, व्यवच्छेदोऽपि द्वयी अत्यन्ताभावश्च अन्योन्याभावश्च / एवकारे च प्रायेण समभिव्याहृतप्रातिपदिकसमानविभक्तिकत्वम् ; विभक्तिश्रवणन्तु न लुप्तत्वात् , स्वभाववैचित्र्याच। तदर्थेऽन्यस्यान्वयो न व्यवच्छेदस्य समभिव्याहृतप्रातिपदिकार्थस्य चैवकारोपस्थितेऽन्यस्मिन्नप्यन्वयः, एवमन्वयान्तरनियमोऽपि स्वीयैकार्यान्वितार्थान्तरबोधकत्वमपि तस्य स्वभाववैचि. त्र्यादेव / एवं "पृथिव्यामेव गन्धः' इत्यत्र पृथिव्यां गन्धः, पृथिव्यन्यस्मिन् न गन्धः इत्यन्वयः। "चैत्रो जलमेव भुक्ते" इत्यत्र चैत्रो जन