________________ 162 ] शाखवातासमुच्चयस्य [सप्तमः यञ्च पूर्व शोकप्रमादादिवासनाहेतुक परिकीर्तित पूर्वपक्षिणा नतु भिन्नवस्तुनिमित्तकमिति तद्युक्तम् - यतो हि शोकादिजनकत्वेन सम. नन्तरज्ञानक्षणलक्षणा सा वासना न कदाचिनिहेतुका भवितुमर्हति, निर्हेतुकत्वे तस्या उत्पत्तिशीलत्वे च सदाऽनुत्पत्त्यापत्तिरिति / व्यवस्थापितश्चायमर्थः यतः स्वभावतो जातमेकं नान्यत्ततो भवेत् / . कृत्स्नं प्रतीत्यते भूतिभावत्वात्तत्स्वरूपवत् // 1 // अन्यच्चैवंविधं चेति यदि स्यात् किं विरुध्यते / तत्स्वभावस्य कात्स्न्ये न हेतुत्वं प्रथम.प्रति // 2 // इत्यादिना ग्रन्थेन श्रीहरिभद्रसूरिणाऽनेकान्तजयपताकादौ / स्याद्वादिनः कचिदप्यधिकृते वस्तुनि निश्चयो न युज्यते इति यत्पूर्वपक्षिणोदीरितम् तदपि न समीचीनम् , तस्य निश्चयस्यैकान्तनिबन्धनत्वात् / तथाहि-न तावदस्माकमाईतानां माने कथञ्चिदमा. नत्वसमावेशादप्रामाण्यसंशयादानिश्चयः, मानत्वाऽमानत्वयोः कथश्चिदविरोधात् अवधृतविरोधयोधर्मयोरेकत्र धर्मिणि प्रतिभासस्यैव संश. यत्वात् , प्रत्यक्षं मानमेवेति कथम् , अनुमानमानत्वाभावात् , प्रत्यक्षस्य स्वमानत्वेनैव मानत्वात्, अनुमानमानत्वेन चामानत्वादिति / __ अत्र नैयायिकादयः-"ननु प्रत्यक्षस्यानुमानान्यत्वेऽपि प्रत्यक्ष मानमेव' इति प्रयोगो न दुर्घट:," 'न हि मानमेव' इत्यत्र कात्स्न्यमेव. कारार्थः, कस्याप्येकस्य कृत्स्नमानरूपत्वाभावात् , किन्त्वयोगव्यव. च्छेदः, तत्र च व्युत्पत्तिवशाद् मानत्वावच्छिन्नप्रतियोगिताकायोगो. पस्थितेर्न दोषः, प्रत्यक्षेऽनुमानत्वावच्छिन्नायोगसत्त्वेऽपि मानत्वावच्छिन्नायोगाभावात्।