________________ स्तकः कल्पलतावतारिका [161 - अपि च कारणकाले कार्यस्य सत्त्वे स्वकाल इव कथमसौ तेनाब्रियते ? कथं च मृत्पिण्डकार्य्यतया घटो व्यपदिश्यते न त्वन्यथापटादिवत् / असत्त्वे च नावृतिः, अविद्यमानत्वादपसिद्धान्तश्च, विवेचितं चेदं चार्वाकवार्तायाम्, निरस्तश्च सांख्यवार्तायां सत्कार्यवादोऽपीति न किञ्चिदेतत् / ___यदपि "कारणात् कार्य्यमत्यन्तं पृथग्भूतमेव तदानितत्वेव तस्यो. त्पत्तेश्च न पृथगुपलम्भः” इति वैशेषिकादीनां मतम्, तदपि समवायनिषेधात् अन्यस्य च सम्बन्धस्याभावादनुपपन्नमेव / किश्चावयवेभ्योऽवयविन एकान्तभेदे एकदेशरागे सर्वस्य रागः स्यात् , एकदेशावरणे च सर्वस्यावरणं भवेत्, रक्तारक्तयोरावृतानावृतयोश्च भवदभ्युपगमेनैकत्वात् / ... योऽप्याह "कार्यकारणातिरिक्त ध्रुवमद्वैतमात्रं तत्त्वम्" इति तन्मतमपि नो समीचीनम् , कार्यकारणोभयशून्यस्याद्वैतस्य गगनकमलसब्रह्मचारित्वात्। किञ्च "अद्वैतम्" इति पर्युदासः, प्रसज्यप्रति. षेधो वा ? प्रसज्यपक्षे प्रतिषेधमात्रपर्यवसानाद् नाद्वैतसिद्धिः, प्रधानो“पसर्जनभावनाङ्गाङ्गिभावकल्पनायां द्वैतप्रसक्तः। प्रयुंदासपक्षेऽपि द्वैत‘प्रसक्तिरेव प्रमाणप्रतिपन्ने द्वैते तत्प्रतिषेधेनाद्वैतसिद्धेः / अपि च द्रव्या द्वैते रूपादिभेदाभावप्रसङ्गः / नच चक्षुरादिसम्बन्धात् तदेव द्रव्यं 'रूपादिप्रतिपत्तिजनकमिति वाच्यम् सर्वात्मना तत्सम्बन्धे सर्वदा तथैव प्रतीतिप्रसक्तः, रूपान्तरस्य तद्व्यतिरिक्तस्याभ्युपगमे चाद्वैतव्याघातात् / अत एकत्रैवाधिकृतघटादिवस्तुनि विवक्षितकाले उत्पादव्ययध्रौव्यलक्षणमुक्तरीत्या भिन्नापेक्षत्वात् ( अभूतभवनभूताभवनतदुभयाधारस्वभावत्वभेदाद्वा) न्याय्यमेव, निमित्ताभेदे त्रयमेकत्र न युज्यते भिन्नापेक्षाणामेकापेक्षत्वायोगात् , एकस्य भेदायोगाद्वा /