________________ 16. ] शास्त्रवातासमुच्चयस्य [षष्ठः रूपहेत्वन्तरस्वभावः, अधिकृतरूपोत्पाद एव प्राक्तनरूपनाशप्रतीतेर्युतत्वात् , तदजनकस्वभावपरित्यागसमनियतत्वात् तज्जननस्वभावत्वस्येति / विनाशश्च भूताभवनरूप उत्पादविपर्यय: स्वीकरणीयः, प्रकृतरूपनाशस्येतररूपोत्पादानान्तरीयकत्वानुभवात, दीपादिविनाशेऽपि तमःपर्यायोत्पादानुभवस्य जागरूकत्वात् तदतद्रूपनाशोत्पादयो. रेकसामग्रीप्रभवत्वाच्च / एवं ध्रौव्यमप्युपादव्ययाधारस्वभावात्मकं तथा. प्रतीतेस्तदुभयाविनाभूतं स्वीकार्य नत्वन्यथाभूतम् , अन्यथोत्पादव्ययध्रौव्यत्रितयमपि कथाशेषतामापद्येत, परस्परानुविद्धरूपत्वात् , अधिकृतान्यतराभावे तदितराभावनियमात्, तथाहि-ध्रौव्यव्यतिरेकेणो. त्पादव्ययौ न सङ्गती, सर्वदा सर्वस्यानुस्यूताकारव्यतिरेकेण विज्ञानपृथिव्यादिकस्याप्रतिभासनात् , एवमुत्पादव्ययव्य तिरेकेण ध्रौव्यमप्यसङ्गतम् , तथाहि-"दुग्धादौ दध्यादिकं सदेव" इति सांख्यः, दुग्धादेरेव दध्यादिरूपेण व्यवस्थितत्वात् / “तदव्यतिरिक्त विकारमात्रमेव कार्यम्” इति सांख्यविशेष: / "न कार्य कारणे प्रागस्ति किन्तु ततः पृथग्भूतमेव सामग्रीतो भवति न तु कारणमेव कार्यरूपेण व्यव तिष्ठते परिणमते वा" इति वैशेषिकादयः / न च कायं कारणं वाऽस्ति व. मद्वैतमात्रमेव तत्त्वम् इत्यपरः / तत्र "दुग्धादौ दध्यादिकं सदेव" इति सांख्यमतं न युक्तम्, कारणब्यापारवैफल्यात् , न हि तेन कार्योत्पत्तिः तदभिब्यक्तिः, पावरणविनाशो वा कर्तुं शक्यते, तदुत्पत्त्यभिब्यक्त्योरपि सत्त्वे कारक. न्यापारवैफल्यात् , असत्त्वेऽपसिद्धान्तात् , आवरणविनाशेऽपि न तत्साफल्यम् असतो भावस्योत्पादवत् सतो भावस्य नाशाभावात्। नपान्धकारषत् तदावारक किश्चिदुपलभ्यते /