________________ स्तक्कः ] कल्पलतावतारिका [156 / णिययवयणिजसच्चा सव्वणया परविनालणे मोहा / - ते उण ण दिट्रसमको विभयइ सच्चे व अलिए वा // 1 / 28 / अस्यार्थ:- निजकवचनीये-स्वविषये परिच्छेद्ये / सत्या:सम्यग्ज्ञानरूपाः / सर्वनया:-संग्रहादयः, तद्वति तदवगाहित्वात् / परविचालने-परकीयविषयोत्खनने / मोहा:-मुह्यन्तीति तथा असमर्था इंति परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात् , तदभावे स्व विषयस्याप्यव्यवस्थिते:, परस्परं नान्तरीयकत्वात्, अतः परविषयस्याभावे म्वविषयायाप्यसत्त्वात् तत्प्रत्ययस्य मिथ्यात्वमेवेत्यवधारयन् दृष्टसमयो ज्ञाताऽनेकान्तः पुनस्तान् नयान् न विभजते सत्यानलीकान् वा किन्वितरनयविषयसव्यपेक्षतया 'अस्त्येव द्रव्यार्थतः” इत्येवं भजनया स्वनयाभिप्रेतमर्थं सत्यमेवावधारयति, यद् यत्र यदपेक्षयाऽस्ति तस्य तत्र तदपेक्षया ग्राहकत्वेन नयप्रामाण्यात् / अत एव च द्रव्यास्तिकादेः प्रत्येकमित्थंरूपतया सत्त्वमनित्थरूपतया चासत्त्वं परिभाषितम् - / दवट्रिउत्ति तम्हा णत्थि णो णियमसुद्धजातीओ। _ न य पज्जवट्रिनो णाम कोइ भयणाइ उ विसेसी // 1 / 6 / सम्मतिग्रन्थे / प्रागनुभूतरूपाविर्भवनमुत्पादः स्वनान्तरीयकप्राक्प-यनाश निजकवचनीयसत्याः सर्वनयाः परविचालने मोहाः / ___तान् पुनर्न दृष्टसमयो विभजते सत्यान् वाऽलीकान् वा / / 1 / 20 / / द्रव्यार्थिक इति तस्मान्नास्ति नयो नियमशुद्धजातित: / न च पर्यायास्तिको नाम कोऽपि भजनया तु विशेषः / / 1 / 9 / .