________________ 158 ] शास्त्रवार्तासमुच्चयस्य [ षष्ठः मिथ्यात्वन्तदा सिकतासमुदाये तैलवत् तत्समुदायेऽपि सम्यक्त्वाभावात् कथं 'प्रमाणनयैरधिगमः' इति चेत् सत्यम् , नह्यत्र दलप्रचयलक्षणः समुदाय उच्यते पर्यायस्यादलत्वात् , इतरेतरविषयापरित्यागवृत्तीनां ज्ञानानां समुदायाभावात् / तदिदमुक्तं सम्मतिग्रन्थे* तम्हा सव्वे वि णया मिच्छदिछी सपक्खपडिबद्धा / / अण्णोण्णणिस्सिया उण हवंति सम्मत्तसब्भावा // 1 // 21 // ननु यथा बहुमूल्यान्यपि रत्नान्यननुस्यूतानि "रत्नावली” इति व्यपदेशं न लभन्ते, अनुस्यूतानि च तान्येव “रत्नावली” इति व्यपदेशं लभन्ते त्यजन्ति च प्रत्येकसंज्ञाः, तथा नया अपि प्रत्येक सम्यक्त्वव्यपदेशं न लभन्ते समुदितास्तु तं लभन्ते, जहति च दुर्नयसंज्ञाः इति कथं दृष्टान्त इति चेत् , निमित्तभेदेन व्यपदेशभेद एवार्य दृष्टान्तो न तु प्रत्येकसमुदायभाव इति दोषाभावात् / ___ ननु "घट उत्पन्न एव" इति स्यादेशविनिर्मुक्तस्य दुर्नयस्यापि नयवत् स्वविषयावधारकत्वमस्त्त्येव, एवकारेणानुत्पन्नत्वाभावज्ञापनेऽप्युत्पन्नत्वप्रकाशनव्यापारापरित्यागात् , अनेकान्तबलादुभयोपपत्तेः, रक्ततादशायां घटे "न श्यामः" इतिबुद्धिवदिति चेत् सत्यम्, इतर. नयविषयविरोधावधारणे भजनां विना स्वविषयावधारणस्यैवाप्रवृत्तः, प्राक् श्यामत्वेन ज्ञाते इदानीम् इति विनिर्मोकेण "न श्यामः" इति बुद्धिवत् प्रवृत्तस्यापि च तस्यान्यथाविषयत्वरूपमिथ्यात्वोपस्थितेः / तदिदमुक्तं सम्मतिसूत्रगाथायाम् ॐ तस्मात् सर्वेऽपि नया मिथ्यादृष्टयः स्वपक्षप्रतिबद्धाः। अन्योन्यनिश्रिताः पुनर्भवन्ति सम्यक्त्वसद्भावाः // 1 / 21)