________________ शास्त्रवार्तासमुच्चयस्य [ सप्तमः - - - वा साङ्केतिकमेकं पदं तथा वक्तुं शक्यम् , तस्यापि क्रमेणार्थप्रत्याय. कत्वात्, “सकृदुच्चरितं पदं सकृदथं बोधयति" इत्येतन्न्यायार्थः, तेन. नानार्थकशब्दस्थले एकपदादुभयोपस्थितावपि नोभयबोधः / ___यदा च देशोऽस्तित्वे नियम्यते, देशश्च नास्तित्वे, तदाऽवयवाषयविनोः कथञ्चिदभेदादवयवद्वारा "कुण्ठो देवदत्तः' इत्यत्रेव तद्धमर्माणामवयविनि व्यवदेशाच्चतुर्थभङ्गप्रवृत्तिः, एकत्रावयविनि तथाविविक्षायामवक्तव्यतायामेव पर्यवसान स्यादिति नातिप्रसङ्गः, अव. : यवत्वेन च विशिष्टधर्मेण विभज्यैकमादिश्यमानं सुप्रसिद्धमेव, यथैक एव पुरुषो विवक्षितपर्यायेण बालादिना परिणतः कुमारादिना चापरिणत इति, तदिदमुक्तं द्वितीयसम्मतिप्रकरणे ३७तमायां गाथायाम् * अह देसो सम्भावे देसोऽसन्भावपज्जए णियो। तं दवियमत्थि णत्थि य आएस विसेसि.जम्हा // 1 // यदा च देशोऽस्तित्वे वक्तव्यत्वानुविद्धस्वभाव आदिश्यते अप. रश्चदेशोऽस्तित्वनास्तित्वाभ्यामेकदैव विवक्षितोऽस्तित्वानुविद्ध एवावक्तव्यत्वस्वभावे तदा पञ्चमभङ्गप्रवृत्तिः, प्रथमतृतीयकेवलभङ्गव्युदासोऽत्र विवक्षाभेदकृतो द्रष्टव्यः, प्रथमतृतीययोः परस्परानुपरक्तयोः प्रतिपाद्येनागन्तुमिष्टत्वात् , प्रतिपादकेनापि तथैव विवक्षितत्वान् , अत्र तु तद्विपर्ययात् , अनन्तधर्मात्मकस्य धर्मिण: प्रतिपाद्यानुरोधेन तथाभूतधर्माकान्तत्वेन वक्तुमिष्टत्वात् , तदिदमुक्तं सम्मतिप्रकरणे चतुर्थसम्मतावष्टात्रिंशत्तमायां गाथायाम् * अथ देश: सद्भावे देशोऽसद्भावपर्यवे नियतः / . . तद् द्रष्यसस्ति नास्ति चादेश विशेषितं यस्मात् // 1 // .