________________ 156 ] शास्त्रवार्तासमुच्चयस्य [ षष्ठः - ___ नचानेकान्तवादे तत्सत्त्वेऽपि तदभाषज्ञानात् प्रवृत्त्यध्यस्थया श्रीत्याद्यव्यवस्थापि येन रूपेणेच्छा तेन रूपेण तदभावज्ञानस्यैव प्रवृत्ति विघातकत्वात्। एतेनापि "नैकान्तः सर्वभावानां, यदि सर्वविधागतः / अप्रवृत्ति निवृत्तीदं, प्राप्तं सर्वत्र ही जगत् // " इति .. सर्वस्वहानिजनित इव महान मण्डनमिश्रगृहशोको निवारितः / अन्यथाप्येतदुत्पादस्थितिध्रौव्यं प्रत्येक वस्तूनामभ्युपगन्तव्यम्। तथाहि क्षीरभोजनव्रतो दधि न भुक्ते, यदि च दन: पयस एकान्ततोऽभेदः स्यात्तदा तस्य दधि भुञ्जतोऽपि व्रतभङ्गो न स्यात् , ततो दधिपयसोः कश्चिद् भेदोऽङ्गोकरणीयः / एवं दधिव्रतोऽपि पयो न भुक्त। तथाऽ. गोरसत्रतः (बालनालादिभोज नव्रतः) दुग्धदधिनी नात्तीति गोरसभावेन द्वयोरभेदः, अन्यथा कृतगोरसप्रत्याख्यानस्य दुग्धाद्यकैकभोजनेऽपि न प्रतभङ्गः स्यादिति, तस्माद् द्रव्यपर्यायोभयात्मकत्वात् , सर्व वस्तु ध्यात्मकं ( उत्पादव्ययध्रौव्यापृथग्भूतम् ) मन्तव्यम्। ननु दुग्धदध्नोरेकान्तेन भेद एवेति तस्योत्पादव्ययौ युक्ती, धौव्यं तु गोरसत्वसा. मान्यस्यैव न तु गोरसस्येति चेन्न - इदमेव गोरसं दुग्धभावेन नष्टम् , दधिभावेन चोत्पन्नम् इत्येकस्यैकदोत्पादव्ययाधारत्वलक्षणध्रौव्यभागितया प्रत्यभिज्ञायमानस्य पराकर्तुमशक्यत्वात् / तथा चोक्तम् - “पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः / अगोरसवतो नोभे, तस्माद्वस्तु त्रयात्मकम् // " भत्र पूर्वपक्षिण: सौगतादयः प्रत्यवतिष्ठन्ते, तथाहि-उत्पाद. व्ययादित्रयं परस्पर विरुद्धमेव, तस्मादेकत्र वस्तुन्ये कस्मिन् काले कदाचिदपि त्रयं नैवावस्थातुं शक्नोति यतः प्रागसतः सामग्रीबलादा