________________ स्तवकः ] कल्पलतावतारिका [155 च्छोकः, मुकुटार्थिनस्तु तदुत्पादात्प्रमोदः, सुवर्णार्थिनस्तु पूर्वनाशापूर्वो त्पादाभावान्न शोको न वा प्रमोदः किन्तु माध्यस्थ्यमिति दृश्यते / इदश्च वस्तुनस्त्रलक्षण्यं लक्षणं विनाऽनुपपन्नम्, घटनाशकाले मुकुटोत्पादानभ्युपगमे तदर्थिनः शोकानुपपत्तेः, घटादिविवर्तातिरिक्तसुवर्णद्रव्यानभ्युपगमे च सुवर्णार्थिनो माध्यस्थ्यानुपपत्तेः / न च सुवर्णसामा. न्यार्थिनो यत्किश्चित् सुवर्णनाशेऽपि शोकाभावात् अपूर्वेच्छाभावेन च प्रमोदाभावादर्थादुत्पद्यते माध्यस्थ्य मिति वाच्यम् तथापि घटनाशानन्तरमेव मुकुटोत्पादाभ्युपगमेऽन्तरा - यावत्सुवर्णभावे शोकस्यैव प्रसङ्गात् , दोषविशेषात्तदननुभवेन शोकाभावोऽपि विशेषदर्शिनो दुर्घटः / न च सुवर्णसामान्याभावोऽपि सुवर्णसामान्येच्छाविघातकज्ञानविषय एकः परस्य युज्यते, अनुभवेन तदैक्याभ्युपगमे च तत्तद्विवर्तानुगतसुवर्णसामान्यस्याप्यनुभवसिद्धस्य प्रत्याख्यातुमशक्यत्वात् , गौ. णीकृतविशेषायास्तद्विषयकेच्छाया एव तद्विषयकप्रवृत्तिहेतुत्वात् / नच शोकादिकं निर्हेतुकमिति वक्तु शक्यम् , सर्वदा सत्त्वस्याऽसत्त्वस्य वा प्रसङ्गात् / नच युष्माकमपि तत्र घटमुकुटोभयार्थिनो युगपच्छोकप्रमोदोत्पादः इति वाच्यम्, एकत्रोभयार्थिप्रवृत्त्ययोगात् / एकत्र देशे तत्प्रवृत्तौ चोभयस्य कथञ्चित्प्रत्येकातिरेकेण दोषाभावात् / येन रूपेण यत्रेच्छा तेन रूपेण तन्नाशोत्पादस्थितिज्ञानानामेव शोकप्रमोदमाध्य. स्थ्यहेतुत्वात् , अनेकान्तस्याप्यनेकान्तानुविद्धैकान्तगर्भत्वात् / . . एतेन "उत्पादस्थितिभङ्गाना-मेकत्र समवायत.। प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटम्" इत्यभिप्रायापरिज्ञानविजृम्भितं मण्डनमिश्रकृतखण्डनमपास्तम् , नहि घटमुकुटरूपापेक्षावुत्पादनाशावेव सुवर्णरूपापेक्षावपि येनाव्यवस्था भवेदिति /