________________ शास्त्रवार्तासमुच्चयस्य [ षष्ठः त्पादादिकमपि प्रमीयेतेति वाच्यम् , व्यावृत्तिद्वारेष्ठत्वात् / अनुवृत्या तु तदभावादेव / अत एव "स्वपरविभागोऽप्येवमुच्छिद्येत" इति निरस्तम् / स्ववृत्त्यनुवृत्तिप्रतियोगित्वेन च परत्वस्य व्यवस्थितेः / अत एव परत्रापि स्वसम्बन्धितामात्रव्यवहारो व्युत्पन्नानामबाध एव / तथा चोक्तं भाष्यकृता विशेषावश्यकभाष्ये * जेसु अणाएसु तो ण णजए णजए अगाएमु / किह ते ण तस्स धम्मा घडस्स रूवाइधम्म व्व // ___ तत्र विसदृशैः पटत्वादिभिः परंपर्यायैर्नास्ति घटद्रव्यम् सदृशैस्तु सत्वद्रव्यत्वपृथिवीत्वादिभिर्व्यञ्जनप-यैरस्त्येव तत् / साधारणासाधारणस्य सामान्यविशेषरूपम्य वस्तुनो गुणप्रधानभावेन सदादिशब्दवाच्यत्वात् / .. ___ अर्थपर्यायैस्तु ऋजुसूत्राभिमतैः सदृशैरपि नास्ति अन्योन्यव्यावृत्तस्वलक्षणग्राहकत्वात्तस्य, स्वपर्यायैरपि प्रत्युत्पन्नैतत्समयेऽन्त्येव, विगतभविष्यद्भिन्तु यथाकथश्चिदस्ति, कथश्चिद् नास्ति तत्काले तच्छक्त्या तस्यैकत्वात् , तद्रूपव्यक्त्या च भिन्नत्वादिति / प्रत्युत्पन्नैरप्येकगुणकृष्णत्वादिभिरनेकगुणैर्भजनेति / एवं स्वत: परतो वाऽनुवृत्ति. व्यावृत्त्याद्यनेकशक्तियुक्तोत्पादादित्रैलक्षण्यलक्षणमनेकान्तात्मकं जगदिति विभावनीयम्। जगत उत्पादादित्रयात्मकत्वं कथमुत्पद्यत इति चेच्छ्रयताम्लोकः प्रत्येकं सौवर्णघटमुकुटस्वर्णान्यभिलषन्नेकदा तन्नाशोत्पादस्थितिषु सतीषु शोकप्रमोदमाध्यस्थ्यं सहेतुकं याति, तदैव घटार्थिनो घटनाशा * येष्वज्ञातेषु ततो न ज्ञायते ज्ञायते च ज्ञातेषु / .. . कथं ते न तस्य धर्मा घटस्य रूपादिधर्मा इव / / .