________________ स्तबकः / कल्पलतावतारिका [ 153 त्वादिति, ततोऽनन्तरभूता अपीति मन्तव्यम् / एवञ्चोत्पादादि. त्रयेण त्रैकाल्येन भेदाभेदाभ्यां भङ्गसङ्गतिर्द्रव्यस्य सूक्ष्मधिया भावनीया / ठ्यात्मकत्रिकालात्मकतयैकवस्तुनोऽनन्तपर्यायात्मकत्वात् / ___ न चैवमनन्ते काले भवतोऽनन्तप-यात्मकैकद्रव्यस्योत्पत्तावपि कथमेकक्षणे तदुपत्तिः ? इति परिशङ्कनीयम्। एकक्षणेऽप्यनन्ताना. मुत्पादानां तत्समानां विगमानां तन्नियतस्थितीनाश्च सम्भवात् / तथाहि- यदैवानन्तानन्तप्रदेशिकाहारभावपरिणतपुद्गलोपयोगोपजातरसरुधिरादिपरिणतवशाविर्भूतशिरोऽङ्गुल्याद्यङ्गोपाङ्गभावपरिणतस्थूलसूक्ष्मसूक्ष्मतरादिभिन्नावयव्यात्मकस्य कायस्योत्पत्ति:, तदैवानन्तानन्तपरमाणूपचितमनोवर्गणापरिणतिलभ्यमनउत्पादोऽपि भवति / तदैव च वचनस्यापि कायांकृष्टान्तरवर्गणोत्पत्तिप्रतिलब्धवृत्तिरुत्पादः, तदैव च कायात्मनोरन्योन्यानुप्रवेशाद् विषमीकृतासंख्यातात्मप्रदेशे कायक्रियोत्पत्तिः, तदैव च रूपादीनामपि प्रतिक्षणोत्पत्तिनश्वराणामुत्पत्तिः, तदैव च मिथ्यात्वाऽविरतिप्रमादकषायादिपरिणतिसमुत्पादितकर्मबन्धनिमित्तागामिगतिविशेषाणामप्युत्पत्तिः, तदैव चोत्सृज्यमानोपादीयमानानन्तानन्तपरमाण्वापादिततत्प्रमाणसंयोगविभागानामुत्पत्ति:, किंबहुना ? यदैवैकद्रव्यस्योत्पत्तिः, तदैव त्रैलोक्यान्तर्गतसमस्तद्रव्यैः सह साक्षात् पारम्पर्येण वा सम्बन्धानामुत्पत्तिः, सर्वद्रव्यव्याप्तिव्यवस्थिताऽऽकाशधर्माधर्मादिद्रव्यसम्बन्धात् , ईदृशप्रतिपत्यभावश्चास्माद्यध्यक्षस्य तथा तथोल्लेखेन निरवशेषधर्मात्मकवस्त्वप्राहकत्वात् / त्रैलोक्यव्यावृत्तस्वलक्षणान्यथाऽनुपपत्याऽनुमीयते तु निर्षाधमेव तथात्वम् / इतरप्रतियोगिकत्वेनेतराप्तिपृथग्भूतानां ध्यावृत्तीनां स्ववृत्तित्वेन स्वापृथग्भूतत्वात् / नचैवं घटे स्वोत्पादादितदन्यो.