________________ 152 ] शास्त्रवार्तासमुच्चयस्य . [पष्ठः तत्र समुदय जनित उभयत्रापि द्विविधः, एकः समुदयविभागरूपः, यथा पटादेः कार्य्यस्य तन्त्वादिकारणपृथक्करणम्, अन्यश्वार्थान्तरभावगमनरूपः, यथा मृत्पिण्डस्य घटार्थान्तरभावः, नाशत्वं चास्याजनकस्वभावाऽपरित्यागे जनकत्वायोगात्, नचैवं घटविनाशे मृत्पिण्डप्रादुर्भावप्रसक्तिः, पूर्वोत्तरावस्थयोः स्वभावतोऽसङ्कीर्णत्वात् , वस्त्वन्तररूपे वस्त्वन्तररूपस्योत्पादयितुमशक्यत्वात् / ऐकत्विकनाशश्चैकत्विकोत्पादवत् वैस्रसिकभेद एवेति / तदुक्तं सम्मतिगाथायाम् + विगमस्स वि एस विही, समुदयजणिअम्मि सो उ दुविअप्पो। ____ समुदयविभागमेत्तं, अत्यंतरभावगमरणं वा // 3 // 34 // स्थितिश्चाविचलितस्वभावरूपत्वाद् न विभज्यते, तद्युक्तत्वं च जगतः कथश्चित्तद्रूपत्वात् , तथाहि त्रयोऽप्युत्पादादयो भिन्नरूपावच्छेदेन भिन्नकालाः, घटोत्पादसमये घटविनाशस्य घटविनाशसमये घटोत्पादस्य तदुत्पादविनाशयोरुत्पत्तिविनाशानवच्छिन्नकालसम्बन्धरूपायास्तस्थितेर्घटविनाशविशिष्टघटरूपमृत्स्थित्योर्वा विरोधात्, तथा प्रत्येकमपि देशकात्याभ्यां भिन्नकालता, उत्पद्यमानस्यापि पटस्य देशेनोत्पन्नत्वात् , देशेन चोत्पत्स्यमानत्वात्, प्रबन्धेन चोत्पद्यमानत्वात् / विगच्छतोऽपि देशेन विगतत्वात्, देशेन च विगमिष्यत्त्वात् , प्रबन्धेन च विगच्छत्वात् , तिष्ठतोऽपि देशेन स्थितत्वात् , देशेन च स्थास्यत्त्वात्, प्रबन्धेन च तिष्ठत्त्वादिति / एकरूपाद् द्रव्यादर्थान्तरभूतादभिन्नकालाश्चैतेऽविशिष्टाः सन्तोऽभिन्नप्रतियोगिविशिष्टा वा कुशूल नाशघटोत्पाद-मृत्स्थितीनामेककाल+ विगमस्याप्येष विधिः समुदयजनिते स तु दिविकल्पः / / समुदयविभागमा त्रमर्थान्तरभावगमनं वा // 3 // 34 //