________________ स्तवकः ].. कल्पलतावतारिका [ 151 णसम्बन्धवान् घट: "इतिवत् आद्यक्षण उत्पन्नो घट." इति प्रयोगो न सूपपादः स्यादिति न किञ्चिदेतत् / पुरुषव्यापाराजन्य उत्पादो द्वितीयः, पुरुषतरकारकव्यापारजन्यत्वं तु स्वरूपकथनमेव, न तु लक्षणम्, प्रायोगिकेऽतिव्याप्तेः / सद्विविधः-समुदयजनित ऐकत्विकश्च। तत्र मूर्तिमद्व्यावयवारब्धः समुदयजनित: इतरश्चैकत्विकः, आद्योऽभ्रादीनामुत्पादः, घटादीनामप्यप्रथमतया विशिष्टनाशस्य विशिष्टोत्पादनियतत्वात् / न हि मूर्तावयवसंयोगकृतत्वं समुदयजनितत्वम् विभागकृतपरमाण्वाद्युत्पादेऽव्याप्तः, किन्तु मूर्तावयवनियतत्वम् / द्वितीयस्तु, गगनधर्माधर्मास्तिकायानामवगाहकगन्तृस्थातृद्रव्यसन्निधानतोऽवगाहनगतिस्थितिक्रियोत्पत्तेरनियमेन स्यात् परप्रत्ययः, मूर्तिमदमूर्तिमदवयवद्रव्यद्वयोत्पाद्यत्वात् / अवगाहनादीनां स्यादैकत्विकः स्यादनकत्विकश्चेति भावः / तदुक्तम् / साभाविओ वि समुदयकउव्व एगत्तिउव्व होजाहि / . आगासाईआणं तिण्हं . परपच्चोऽणिमा // 3 // 33 // ___ इति सम्मतिगाथायाम् / .. व्ययोऽपि स्वाभाविकः प्रयोगजनितश्चेति द्विविधः, तद्वयातिरिक्तस्य वस्तुनोऽभावात्। पूर्वावस्थाविगमव्यतिरेकेणोत्तरावस्थोत्पत्त्य. नुपपत्तेः / न हि बीजादीनामविनाशेऽङ्कुरादिकार्य्यप्रादुर्भावो दृष्टः / नचावगाहगतिस्थित्याधारत्वं तदनाधारत्वस्वभावप्राक्तनावस्थाध्वंसमन्तरेण संभवतीति। . स्वाभाविकोऽपि समुदयकृतो वैकल्पिको वा भविष्यति / आकाशादिकानां त्रयाणां परप्रत्ययोऽनियमात् // 3 // 33 //