________________ 150 ] शास्त्रवार्तासमुच्चयस्य . [ सप्तमः सूरिवरैर्जगत उत्पादव्ययध्रौव्ययुक्तत्व व्यवस्थापितन्तत्रोत्पाद:"उत्पन्नमिदम्” इति बुद्धिसाक्षिको धर्मविशेषः, सद्विविधः, प्रयोगजनितो विस्रसाजनितश्च, तयोः पुरुषव्यापारजन्यः प्रथमः, स च मूर्तिमद्दव्यारब्धावयवकृतत्वात् समुदयवादः, अत एवासावपरिशुद्ध इति गीयते, तदुक्तम् | उप्पाओ दुवियप्पो, पोगजणिो अ वीससा चेव / __ तत्थ य पोगजणिो , समुदयवानो अपरिसुद्धो // 3 // 32 // . इति सम्मतिसूत्रे गाथा / अत्रापरिशुद्धत्वं स्वाश्रययावदवयवोत्पादापेक्षया पूर्णस्वभावत्वम्, अपूर्णावयवस्य घटस्योत्पद्यमानस्य साकल्येनोत्पन्नत्वव्यवहाराभावात् / ननूत्पादस्य भवदुक्तं प्रयोगजन्यत्वमनुपपन्नम्, प्रयत्नजन्यत्वस्य घटादावेव सत्त्वात्, उत्पादस्य पुनराधक्षणसम्बन्धरूपस्य तजन्यवाभावात् इतिचेन्न “मुद्गरपाताद् नष्टो घटः” इति विश्वजनीनव्यवहारतो नाशे मुद्गरपातजन्यत्ववत् "पुरुषव्यापारादुत्पन्नो घटः" इति सर्वजनीनव्यपदेशतः पुनरुत्पादेऽपि पुरुषव्यापारजन्यत्वस्यावश्यकत्वात्, विविच्याननुभूयमानत्वेनोत्पादापलापे स्वीकृते च नाशस्याप्यपलापप्रसङ्गात् , उत्पत्तेराद्यक्षणसम्बन्धेनान्यथासिद्धौ नाशस्यापि चरमक्षणसम्बन्धनाशेनान्यथा सिद्धेः सुवचत्वात्, अन्यत्र तदाधारताप्रत्ययस्योत्पत्त्याधारताप्रत्ययस्येवावच्छेदकत्वेनोपपत्तेः / यदि च घटप्रतियोगिकत्वेन नाशो विलक्षण एवानुभूयत इति चेत् तदा तथोत्पादोऽपि विलक्षण एवेति तुल्यम् / किञ्चैवमाद्यक्षणे ' आद्यक्ष* उत्पादो द्विविकल्पः प्रयोगजनितश्च विस्रसा चैव। .. तत्र च प्रयोगजनितः समुदयवादोऽपरिशुद्धः / / 3 / 32 /