________________ स्तबकः ] कल्पलतावतारिका [146 पातुकामेन सुसजितेन भूयते तथैव तत्त्वबुभुत्सुभिरन्यदीयं दूषित सिद्धान्त समाकाऽपि सन्तोषमलभमानैर्भवद्भिराहतैः श्रवणेऽपि सुखदं जैनागमसिद्धान्तामृतं पातुकामैस्तत्परैर्भूयतामितिभावः / अज्ञानतिमिरध्वंसदीपिका परमतत्त्वोपनिषद्भूतां हितसुखनिःश्रेयसकरीमाईतमतवार्तामाह शास्त्रवार्तासमुच्चयकारो भगवान हरिभद्रसूरिराज: अन्य इति(शास्त्रवार्ता) अन्ये वाहुरनाद्येव, जीवाजीवात्मकं जगत् / सदुत्पादव्ययध्रौव्य-युक्तं शास्त्रकृतश्रमाः॥१॥ अन्वयः-- शास्त्रकृतश्रमाः, अन्ये, तु, जीवाजीवात्मकम् , सदुत्पादव्ययप्रौव्ययुक्तम् , जगत् . अनादि, एव, आहुः / (अव०) शास्त्रकृतश्रमाः-शास्त्रेषु प्रवचनोपनिषदादिषु कृतो विहितः भमो यैस्तादृशाः कृतप्रवचनोपनिषदध्ययनभावाः / अन्येचार्वाकादिभ्यः परे आहेलाः। तु-पुनः / जीवाजीवात्मकम्-जीवाश्वेतनाश्चाजीवा अचेतनाश्वाऽऽत्मानः समुदायिनो यस्य तत्तथा / तेन चिन्मात्रादिषादनिरासः / सदुत्पादव्ययध्रौव्ययुक्तम्-सन्ति पारमार्थिकसत्तावन्ति न तु प्रातिभासिकसत्तावन्ति उत्पादव्ययध्रौव्याणि सदुत्पादव्ययध्रौव्याणि तैर्युक्तम् विशिष्टं तथा पारमार्थिकोत्पादव्ययप्रौव्यमयमित्यर्थः / जगत्-जगत्पदप्रतिपाद्यम् , विश्वम् / अनादिप्रवाहापेक्षया सदातनम् / एव-व्यवस्थायाम् / तेन नेश्वरादिकृतं नवा प्रधानपरिणामादिकृतमिति लभ्यते / आहु:-कथयन्ति /