________________ 148] शास्त्रवार्तासमुच्चयस्य [षष्ठः - प्रणिदध्महे-सम्यग्ध्यानविषयीकुर्मः / सावयवरूपकमलङ्कारः / अनु. पन्धचतुष्टयसूचनश्चाप्यनुसन्धेयम् / प्रस्तुतविषयमवतारयन्ति-पीत इति। . (कल्पलता) पीतेऽन्यवार्ताकलुषोदकेऽपि, नोच्छिद्यते तत्त्वपिपासया वः। आकर्णयन्त्वाईतशास्त्रवाता, कर्णामृतं सम्प्रति तत् सकर्णाः // 4 // अन्वयः अन्यवार्ताकलुषोदके; पीते, अपि, वः, तत्त्वपिपासया, न, उच्छिद्यते, तत्. सकर्णाः ? सम्प्रति. कर्णामृतम, आईतशास्त्रवार्ताम् , आकर्णयन्तु / (कल्पलतावतारिका) अन्यवार्ताकलुषोदके-अन्येषां चार्वाकादीनां वार्ताः सिद्धान्ता अन्यवार्ताः, ता एव कलुषोदकम्-कालुष्ययुक्त जलम् अन्यवार्ताकलुषोदकम् , तस्मिंस्तथा / पीते-पानकर्मीकृते पानक्रियानिरूपितकर्मतामापादिते इति यावत् / अपि-सम्भावनायाम् / वः-युष्माकम् , सकर्णानामितिशेषः। तत्त्वपिपासया-तत्त्वं याथार्थ्यमेवामृतम् तस्य पिपासा पातुमिच्छा तत्त्वपिपासा, तया तथा / न-नहि / उच्छिद्यतेसमुच्छेदः प्राप्यते विनश्यते इति यावत् / तत्-तस्माद्धेतोः / सकर्णाः!-सज्जकर्णेन्द्रिया भवन्तो भवन्त विबुधाः ! सम्प्रति-अधुना / कर्णामृतम्-श्रवणसुखकरम् / आईतशास्त्रवार्ताम्-जैनाऽऽगमसिद्धा. न्तम् / अमृतपदस्याजहल्लिङ्गतया वार्ताविशेषणत्वेऽपि नपुंसकतैव / आकर्णयन्तु-शृण्वन्तु / यथा सातिशयपिपासुना. कालुष्याकुलित सलिलं, निपीयाऽपि तृप्तिमलमलभमानेन समीचीनममृतं . ( जलम् )