________________ स्तवकः ] कल्पलतावतारिका [147 यस्याद्यापि विसृत्वरो विजयते, स्याद्वादरत्नाकरस्तं वीरं प्रणिदध्महे त्रिजगता-माधारमेकं जिनम् // 3 // अन्वयः-अद्यापि, यस्य, आगच्छत्रिपदीनदीसमुदयद्भङ्गभ्रमप्रोच्छलत्तकार्मिप्रसरस्फुरन्नयरयस्याद्वादफेनोच्चयः, विसृत्वरः, स्याद्वादरत्नाकरः, विजयते, त्रिजगताम्, एकम , आधारम्, तम्, वीरम्, जिनम्, प्रणिदध्महे / (कल्पलतावतारिका) . अद्यापि-अद्यत्वेऽपि / यस्य-बुद्धिविषयीभूतस्य चरमतीर्थकृतो वर्द्धमानस्य / आगच्छत्रिपदीनदीसमुदयद्भङ्गभ्रमप्रोच्छलत्तोंमिप्रसरस्फुरन्नयरयस्याद्वादफेनोच्चयः-त्रयाणां पदानां समाहारस्त्रिपदी सैव नदी तरङ्गिणी / 'उप्पन्नेइ वा विगमे इ वा धुवे इ वा' इत्यात्मिका आगच्छन्ती भिन्नभिन्नप्रदेशादायान्ती चासौ त्रिपदी नदी आगच्छत्रिपदीनदी तत: समुदयन्तः समुत्पद्यमानाः भङ्गाः सप्तभङ्गी एव भ्रमा आवर्तास्तत: प्रोच्छलन्तः प्रकर्षणोद्गच्छन्तस्तळ विचारणा एवोर्मयस्तरङ्गास्तेषां प्रसरः प्रसरणन्ततः स्फुरन्तो विजृम्भमाणा विलसन्त इति यावत् नया: सद्वचनरचनप्रकारा एव रया वेगास्तेभ्यः ( समुत्पद्यमानः ) स्याद्वादः- स्यात्पदलाञ्छितवाद एव फेनोचयो डिण्डीरसमूहो यस्य यस्मिन् वा स तथा / विसृत्वरः-विस्तारयुक्तः / स्याद्वादरत्नाकरः-स्याद्वादोऽनेकान्तदर्शनमेव रत्नाकरः समुद्रस्तथा। विजयते-सर्वोत्कर्षेण वर्तते / त्रिजगताम्-त्रिभुवनानाम् / एकम्-मुख्यम्। आधारम्-आश्रयस्वरूपम् / तम्-बुद्धिविषयीभूतम् / वीरम्-नामैकदेशे नामग्रहणात् महावीरम् / जिनम्-तीर्थकृतम् /