________________ 146 ] शास्त्रवार्तासमुच्चयस्य [ षष्ठः तः शकस्यैवेत्यवसेयम् / शक्रस्य -शक्नोति जेतुमरीनिति शक इन्दस्तस्य तथा विस्तारिणीनाम्-विस्तारवतीनाम्। सर्वतः प्रसरणशीलानामिति यावत् / लोलन्मौलिमयूखमांसलरुचाम्-लोलन कम्पमानो मौलिमस्तकम् , लोलन्मौलिस्तस्य मयूखाः किरणानि तेषां मांसलाः परिपुष्टा या रुचो दीप्तयो लोलन्मौलिमयूखमांसलरुचस्तासान्तथा / रयात्-वेगात् / चक्रभ्रमः-चक्रवद् भ्रमणम् / आसीत्अभवत् / लोकानामितिशेष: / कान्तिप्रवाहे चक्रभ्रमो भवत्येव / तथाच नैषधीयचरिते-- "कलशे निजहेतुदण्डजः क्रिमु चक्रभ्रमकारितागुणः / स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रममातनोति यत् / " तस्य-बुद्धिविषयीभूतस्य महामहिमशालिन: / श्रीवामातनयस्यवामायास्तन्नामकश्रीमदश्वसेननृपमहिष्याः क्षत्रियाण्याम्तनयः पुत्रो वामातनयः पार्श्वनाथप्रभुः, श्रिया शोभया सम्पत्त्या लक्ष्म्या वा सहितो वामातनयः श्रीवामातनयस्तस्य तथा / भगवतः श्रीपार्श्व. नाथस्य / पदौ-चरणौ। चेत्-यदि / हृदये-अन्तःकरणे / पदम्स्थानम् / धत्तः-धारयतः / तत्-तर्हि / सुरद्रु-कामकलश-स्वर्धेनवःकल्पवृक्ष-मनोरथपूरकपूर्णकुम्भ-सुरभय: / अन्तिके-समीपे / ननहि। वर्तन्ते इति शेषः। किम्-प्रश्नार्थकमव्ययम् / अपि तु वर्तन्त एवेति भावः / 'किं कुत्सायां वितर्के च निषेधप्रश्नयोरपी' तिमेदिनी / भगवच्छीपार्श्वनाथविषयककविगतरतेः प्राधान्येनाभिव्यज्यमानत्वाद्भावध्वनिर्वेदितव्यः अनुप्रासश्चालङ्कारः / (कल्पलता) आगच्छत्रिपदीनदीसमुदयद्भङ्गभ्रमप्रोच्छलतर्को मिप्रसरस्फुरन्नयरयस्याद्वादफेनोच्चयः / .