________________ स्तवकः / कल्पलतावतारिका [145 - मुक्त इत्यर्थः। सताम्-सजनानाम्, भव्यात्मनामिति यावत् / शान्तिभूः-शमनिलयः शान्त्युत्पादक इति यावत् / कल्याणकल्पद्रुमःकल्याणाय शर्मणे महानन्दायेति यावत् / कल्पद्रुमः कल्पवृक्षस्तथा / धीरः-धीरतागुणसम्पन्नः / भगवान्-षड्विधैश्वर्य्यशाली / (सः) शान्तिः शान्तिनाथशुभाभिधान: षोडशोऽर्हन् / तान्तिम्-सन्तापम्। अपाकरोतु-दूरीकरोतु / शुभप्रार्थिन:-कल्याणकामाः, भव्यात्मानो जना इत्यर्थः / यस्य-घुद्धिविषयीभूतस्य भगवतः शान्तिनाथस्य / पादौ-चरणौ / सदा-सर्वदा। शरणम्-गतिम् / प्रयान्ति-गच्छन्ति प्राप्नुवन्तीति यावत् / अत्र कविगत: श्रीशान्तिनाथतीर्थंकृद्विषयको रत्याख्यो भावः प्राधान्येनाभिव्यज्यते इति भावध्वनिः, प्रेयोरूपकानुप्रासश्च तत्परिपोषकत्वेनालङ्काराः समवसेयाः / (कल्पलता) आसीद्यत्पदयोः प्रणामसमये, शक्रस्य चक्रभ्रमो / लोलन्मौलिमयूखमांसलरुचां, विस्तारिणीनां रयात् // श्रीवामातनयस्य तस्य हृदये, धत्तः पदौ चेत्पदं / तत्कि नाम सुरद्रु-कामकलश-स्वर्धेनवो नान्तिके // 2 // .. अन्वयः-यत्पदयोः, प्रणामसमये, शक्रस्य, विस्तारिणीनाम् , लोलन्मौलिमयूखमांसलरुचाम् , रयात् , चक्रभ्रमः, आसीत् , तस्य, श्रीवामातनयस्य, पदो, चेत् , हृदये, पदम् , धत्तः, तत् , सुरद्रु-कामकलश-स्वर्धेनवः, अन्तिके, न, नाम, किम्। (कल्पलतावतारिका) . ___ यत्पदयोः यस्य बुद्धिविषयीभूतस्य भगवतः पार्श्वनाथस्य पदे चरणौ यत्पदे, तयोस्तथा / प्रणामसमये-प्रणमनावसरे। अर्थ