________________ 144] शाखवार्तासमुच्चयस्य [ सप्तमः * अथ सप्तमः स्तवकः ॐ अथाऽऽर्हतसिद्धान्ततत्त्वं प्रतिपादयिषुः सप्तमस्तव के प्रथम मङ्गलतया श्लोकत्रयं निर्दिशति कल्पलताकृत-चञ्चत्काञ्चनेत्यादि(कल्पलता) चश्चत्काञ्चनकान्तकान्तिरनिशं, गीर्वाणजुष्टान्तिको, विक्रान्तिक्षतशत्रुरस्तजनन-भ्रान्तिः सतां शान्तिभूः / शान्तिस्तान्तिमपाकरोतु भगवान् कल्याणकल्पद्रुमो, धीरो यस्य सदा प्रयान्ति शरणं, पादौ शुभप्रार्थिनः // 1 // अन्वयः- चञ्चत्का इनकान्तकान्ति:, अनिशम् ; गीर्वाणजुष्टान्तिकः, विक्रान्तिक्षतशत्रुः, अस्तजननभ्रान्तिः, सताम, शान्तिभूः, कल्याणकल्पद्रुमः, धीरः, भगवान् , (स:) शान्तिः, तान्तिम् , अपाकरोतु, शुभप्रार्थिनः, यस्य, पादौ, सदा, शरणम्, प्रयान्ति / (कल्पलतावतारिका) चञ्चत्काञ्चनकान्तकान्तिः-चश्चद् विलसत्, शोभमानमितियावत, यत् काश्चन सुवर्णम, तद्वत् कान्ता मनोहरा कान्तिद्युतिश्छविरिति यावद्यस्य स तथा / अनिशम्-सततम् / गीर्वाणजुष्टान्तिकःगीर्वाणैर्देवैर्जुष्टं सेवितं समाश्रितमिति यावत्, अन्तिकं सविधं पार्श्वमिति यावद्यस्य स तथा / विक्रान्तिततशत्रु:-विक्रान्त्या विक्रमेण शौर्येणेति यावत्, क्षता व्रणाङ्किता विनाशिता इति यावत् शत्रवो बाह्याभ्यंतरप्रतिपक्षा येन स तथा / अस्तजननभ्रान्ति:-अस्ता निरस्ता दूरीकृतेति यावत् जननभ्रान्तिर्जन्मभ्रमो येन स तथा। यद्वा अस्ता जननभ्रान्तिः अननप्रयुक्त भ्रमणं संसरणमिति यावयस्म स तथा,