________________ स्तमकः ] कल्पलतावतारिका [141 अस्मिन् लोके, अस्यां प्राज्ञपर्षदि वा / उत्तमाम्-उत्कृष्टाम् / सुविदिताम्-नितान्त ख्याताम्। (अत एव) चित्राम्-आश्चर्यकारिणीम् / ताम्-उत्तमसंविदम् / अनाप्य-अलब्ध्वा / हे हताश ! हता भग्ना आशाऽभिलाषो यस्य तत्सम्बोधने तथा। (त्वम् ) हतः-मारितः कुत्सितो वा / न-नहि / (असि-भवसि ) किम्-प्रश्नार्थकमव्ययम् / अपि तु हत एवासीति भावः / तदीयस्य पराजयस्य प्राधान्येन चमकारितया ध्वननादुत्तमं ध्वनिकाव्यमिदम् / हतत्वे तादृशसंविदनापनस्य हेतुत्वाकाव्यलिङ्गमलङ्कारः / हेतोर्वाक्यपदार्थत्वे काव्यलिङ्ग निगद्यते' इति तल्लक्षणश्रवणात् / तथा चाहुः सूरिपादाः -- (शास्त्रवार्ता० ) एवं च शून्यवादोऽपि, सद्विनेयानुगुण्यतः। अभिप्रायत इत्युक्तो, लक्ष्यते तत्त्ववेदिना // 63 // अन्वयः-एवं, च, शून्यवादः, अपि, सद्विनेयानुगुण्यतः, तत्त्ववेदिना, अभिप्रायतः, उक्तः, ( इति ) लक्ष्यते / (अव०) एवञ्च-उक्तरीत्याऽघटमानत्वे चेत्यर्थः / शून्यवादःशून्यताबोधकवादः / तद्विनेयानुगुण्यतः-शून्यताविषयविभागावधारणप्रवण शिष्यहितानुरोधात् / तत्त्ववेदिना-पदार्थतत्त्वविज्ञेन, बुद्धेनेति यावत् / अभिप्रायतः-तत्प्रयोजनाभिप्रायान् / उक्त:-निगदितः / नतु तत्त्वाभिधित्सयेति / लक्ष्यते-सम्भाव्यते / विना तूपकारक