________________ 142 ] शास्त्रवार्तासमुच्चयस्य [ षष्ठः - - कारणं द्रव्यमृषाभाषित्वे बुद्धस्यानातत्वप्रसङ्गादिति भावः / संक्षेपतः पूर्ण सुगतमतवार्ता / तथा चोक्तं सूक्तमुपाध्यायप्रवरैः - .. ( कल्पलता) श्रमो ममोच्चैरियता कृतार्थः सन्तोऽत्र सन्तोषभृतो यदस्मात् / खलैः किमस्मिन् भ्रमरस्य योग्य, सौभाग्यमन्जस्य न. वायसस्य // 8 // अन्वयः-- इयता. अत्र, मम, उच्चैः, श्रमः, कतार्थः, यत्, सन्तः, अस्मात्, सन्तोषभृतः, अस्मिन् , खलै:, किम, अब्जस्य सौभाग्यम, भ्रमरस्य, भोग्यम्, वायसस्य, न। (कल्पलतावतारिका) इयता-एतावता प्रबन्धेन / अत्र-त्याद्वादकल्पलतायाम् सुगत मतविचारणायां वा / मम-श्रीमद्यशोविजयस्य / उच्चैः-अतिशयितः / श्रमः-प्रयासः। कृतार्थः-सफलः / समजनीति शेषः / यत्यस्माद्धेतोः / सन्त:-प्राज्ञा:, सुधिय इति यावत् / अस्मात्-कार्यात् / सन्तोषभृतः-सतुष्टाः प्रमोदवहा इति यावत् / अस्मिन्-सन्तोषासन्तोषविषये / खल-अप्रसन्नैरपि दुर्जनैः। किम् निषेधार्थकमव्ययम् / अन्जस्य-पद्मस्य / सौभाग्यम्-सौगन्ध्यमकरन्दादिसमृद्धिजातम् / भ्रमरस्य-मधुकरस्य। जात्येकवचनम्। भोग्यम्-उपभोगयोग्यम् / वायसस्य-काकस्य / न-नहि उपभोगयोग्यमितिशेषः / परिसङ्घया. लङ्कारः।