________________ 140 ] शास्त्रवार्तासमुच्चयस्य . [षष्ठः यथा कयाचित्प्राणवल्लभया कान्तया क्षणमप्यपरिक्तचेतसः कुत्र. चिदन्यत्र गतस्यापि तया समासक्तमानसस्य चेतसि हर्षो न संलक्ष्यते तथैव शून्यतया नितान्तमपरित्यक्तचित्तस्य सतत शून्यतां भावयतः प्राज्ञसभायामपि शून्यतासंवलितस्य ते चेतसि काचन प्रीतिर्नावलो. क्यत इति प्रकृते उपमानोपमेययोः साधारणधर्माभिसम्बन्धादुपमा. लङ्कारः / सभायां किश्चिद्वक्तुमशक्यतया तदीयः पराजयो ध्वन्यते प्राधान्येन चमत्कारितयेति ध्वनिकाव्यमिदमवसेयम। (कल्पलता) मुग्ध ! माध्यमिक ! मध्यमसंवित्, किं सता बत समाश्रयणीया / उत्तमां सुविदितामिह * चित्रां, तामनाप्य न हताश ! हतः किम् ? // 6 // अन्वयः-मुग्ध ! माध्यमिक ! बत, सता, मध्यमसवित् , समाश्रयणीया, किम् , इह, उत्तमाम् , सुविदिताम् , चित्राम , ताम, अनाप्य, हताश ! (त्वम् ) हतः न असि किम् / (कल्पलतावतारिका) मुग्ध ! अयि मूढ ! 'मुग्धः सुन्दरमूढयोः" इत्यभिधानात् / माध्यमिक ! तदभिधानसुगततनयविशेष ! बत! खेदेऽव्ययम् / सता-सज्जनेन, सत्पुरुषेणेत्यर्थः / बुद्धिमतेति यावत् / मध्यमसंवित्मध्यमा बुद्धिः। समाश्रयणीया-संसेवनीया। किम्-प्रश्नार्थकमव्ययम् / "किं कुत्सायां वितर्के च निषेधप्रश्नयोरपि" इति मेदनी / अपि तु समीचीनबुद्धिना मध्यमसंवित नैव समाश्रयणीयेतिभावः / इह